English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 60

Puran Kavya Stotra Sudha - Page 60

Puran Kavya Stotra Sudha - Page 60


व्यवहारचातुर्ययोगः – स्त्री
६. स्त्री
१०५ न स्त्री दुष्यति जारेण न विप्रोऽवेदकर्मणा ॥
बलात्कारोपभुक्ता चेद्वेरिहस्तगतापि वा ॥ ६॥
१०६ [न संत्यजेद्दषितां नारीमृतुकालेन शुद्धयति ॥
पूर्व स्त्रियः सुरैर्भुक्ताः सोमगन्धर्ववन्हिभिः ॥ ७ ॥
१०७ भुञ्जते मानुषाः पश्चान्नैता दुष्यन्ति केनचित् ॥
असवर्णेन यो गर्भः स्त्रीणां योनौ निषिच्यते ॥ ८ ॥
१०८ अशुद्धा तु भवेन्नारी यावच्छत्यं न मुञ्चति ॥
निःसृते तु ततः शल्ये रजसा शुद्धयते ततः ॥ ९ ॥] अग्नि, अ. ६४.
१०९ गते भर्तरि या नारी शृङगारं कुरुते यदि ॥
रूपं वर्णं च तत्सर्वं शवरूपेण जायते ॥ ८० ॥ पद्म, भूमिखं., ४१.
११० रूपमेव गुणः स्त्रीणां प्रथमं भूषणं शुभे ॥
शोलमेव द्वितीयं च तृतीयं सत्यमेव च ॥ ३० ॥
१११ आर्जवत्वं चतुर्थं च पञ्चमं धर्ममेव हि ||
मधुरत्वं ततः प्रोक्तं षष्ठमेव वरानने ॥ ३१ ॥
११२ शुद्धत्वं सप्तमं बाले अन्तर्बाह्येषु योषिताम् ॥
अष्टमं हि पितुर्भावः शुश्रूषा नवमं किल ॥ ३२ ॥
११३ सहिष्णुर्दशमं प्रोक्तं रतिश्चैकादशं तथा ॥
पातिव्रत्यं तथा प्रोक्तं द्वादशं वरवणनि ॥ ३३ ॥
Ibid, भू. खं., ३४.
११४ परस्त्रीमुखसौन्दर्यं परद्रव्यं च सर्वदा ॥
दृष्ट्वा कामाग्निसंखिन्ना दह्यन्ते मूढमानसाः ॥ ४३ ॥
Ibid, ऋि. खं., ४.
११५ तावत्प्रियतमा नारी यावत्तिष्ठति यौवनम् ॥
मृणालकोशां नलिनीं हेमभृङगो न गच्छति ॥ ५४॥
११६ जम्बूकों बलवान्सिहो विहायाङकगतामपि ॥
हस्तिनों न हि कि धत्ते यत्नतः प्रतिपत्तये ॥ ५५ ॥
Ibid, क्रि, खं., ५.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP