स्तो त्र यो गः
भक्तियोगः
अकिञ्चनस्य दान्तस्य शान्तस्य समचेतसः ||
मया संतुष्टमनसः सर्वाः सुखमया दिशः ||१३||
न पारमेष्ठचं न महेन्द्र विष्ण्यं न सार्वभौमं न रसाधिपत्यम् ||
व योगसिद्धीरपुनर्भवं वा मय्यपितात्मेच्छति मद्विनान्यत् ॥ १४ ॥
न तथा मे प्रियतम आत्मयोनिन शङ्करः ॥
न च सङ्कर्षणो न श्रीवात्मा च यथा भवान् ॥ १५॥
निरपेक्षं मुनि शान्तं निर्वैरं समदर्शनम् ||
अनुव्रजाम्यहं नित्यं पूयेयेत्यंघ्रिरेणुभिः ||१६||
निष्किञ्चना मय्यनुरक्तचेतसः शान्ता महान्तोऽखिलजीववत्सलाः ॥
कामरनालब्धधियो जुषन्ति यत् तन्नैरपेक्ष्यं न विदुः सुखं मम ॥१७॥
बाध्यमानोऽपि मद्भक्तो विषयैरजितेन्द्रियः ॥
प्रायः प्रगल्भया भक्त्या विषयैर्नाऽभिभूयते ॥१८॥
यथाग्निः सुसमृद्धाचि: करोत्येवांसि भस्मसात् ॥
तथा मद्विषया भक्तिरुद्धवैनांसि कृत्स्नशः ॥ १९॥
न साधयति मां योगो न सांख्यं धर्म उद्धव ॥
न स्वाध्यायस्तपस्त्यागो यथा भक्तिर्ममोजिता ॥२०॥
भक्त्या हमेकया ग्राह्यः श्रद्धयाऽऽत्मा प्रियः सताम् ॥
भक्तिः पुनाति मनिष्ठा इवपाकानपि सम्भवात् ॥२१॥
धर्मः सत्यदयोपेतो विद्या वा तपसान्विता ॥
मद्भक्त्यापेतमात्मानं न सम्यक् प्रपुनाति हि ॥२२॥
कथं विनारोमहर्षं द्रवता चेतसा विना ||
विनाऽऽनन्दाश्रुकला शुद्धयेद्भक्त्या विनाऽऽशयः ॥२३॥
वाग्गद्दा द्रवते यस्य चित्तं रुदत्यभीक्ष्णं हसति क्वचिच्च ॥
विलज्ज उद्गायति नृत्यते च मद्भक्तियुक्तो भुवनं पुनाति ॥२४॥
यथाग्निना हेममलं जहाति घ्मातं पुनः स्वं भजते च रूपम् ॥
आत्मा च कर्मानुशयं विधूय मद्भक्तियोगेन भजत्यथो माम् ॥ २५॥
यथा यथाऽऽत्मा परिमृज्यतेऽसौ मत्पुण्यगाथाश्रवणाभिधानंः ॥
तथा तथा पश्यति वस्तु सूक्ष्मं चक्षुर्यर्थवाञ्जनसंप्रयुक्तम् ॥२६॥
२७१