पुराणकाव्यस्तोत्रसुवा ।
रुद्र उवाच - संसारसागराद्घोरात्मुच्यते कि जपन्प्रभो । नरस्तन्मे परं
जप्यं कथय त्वं जनार्द्दन ॥ १ ॥ हरिरुवाच --परेश्वरं परं ब्रह्म परमात्मान-
मव्ययम् । विष्णुं नामसहस्रेण स्तुवन्मुक्तो भवेन्नरः ॥ २ ॥ यत्पवित्रं परं
जप्यं कथयामि वृषध्वज ! | शृणुव्वावहितो भूत्वा सर्वपापविनाशनम् ॥ ३ ॥
ॐ वासुदेवो महाविष्णुर्वामनो वासत्रो वसुः । बालचन्द्रनिभो बालो बलमद्रो
बलाधिपः ॥ ४ ॥ बलिबन्धनकृद्वेघा (११) वरेण्यो वेदवित्कविः । वेदकर्ता
वेदरूपो वेद्यो वेदपरिप्लुतः ॥ ५ ॥ वेदाङ्गवेत्ता वेदेशो (२०) बलाधारो
बलार्दनः । अविकारो वरेशश्च वरुणो वरुणाधिपः ॥ ६ ॥ वीरहा च बृहद्वोरो
वन्दितः परमेश्वरः (३०) | आत्मा च परमात्मा च प्रत्यगात्मा वियत्परः
॥७॥ पद्मनाभः पद्मनिधिः पद्महस्तो गदाधरः । परमः (४०) परभूतश्च पुरुषोत्तम
ईश्वरः ॥ ८ ॥ पद्मजङ्घः पुण्डरीक: पद्ममालाधरः प्रियः | पद्माक्षः पद्म-
गर्भश्च पर्जन्यः (५०) पद्मसंस्थितः ॥ ९ ॥ अपारः परमार्थश्च पराणां च
परः प्रभुः । पण्डितः पण्डितेभ्यश्च पवित्रः पापमर्दकः ॥ १० ॥ शुद्धः (६०)
प्रकाशरूपश्च पवित्र: परिरक्षकः । पिपासावजितः पाद्यः पुरुषः प्रकृतिस्तथा
॥ ११ ॥ प्रधानं पृथिवीपद्मं पद्मनाभः (७०) प्रियप्रदः । सर्वेशः सर्वगः सर्वः
सर्वविदः परः ॥ १२ ॥ सर्वइच जगतो धाम सर्वदर्शी च सर्वभूत् (८०) |
सर्वानुग्रहकृद्देवः सर्वभूतहृदि स्थितः || १३ || सर्वपूज्यश्च सर्वाद्यः सर्वदेव-
नमस्कृतः । सर्वस्य जगतो मूलं सकलो निष्कलोऽनल: (९०) ॥ १४ ॥ सर्व-
गोप्ता सर्वनिष्ठः सर्वकारणकारणम् । सर्वध्येयः सर्वमित्रः सर्वदेवस्वरूपधृक्
।। १५ ।। सर्वाध्यक्षः सुराऽध्यक्षः सुरासुरनमस्कृतः । दुष्टानां चासुराणां च
सर्वदा घातकोऽन्तकः (१०१ ) || १६ || सत्यपालश्च सन्नाभः सिद्धेशः सिद्ध-
वन्दितः ।
सिद्धसाध्यः सिद्धसिद्धः साध्यसिद्धो हृदीश्वरः ॥ १७ ॥
शरणं जगतश्चैव (११०) श्रेयः क्षेमस्तथैव च । शुभकृच्छोभनः सौम्यः सत्यः
सत्यपराक्रमः ॥ १८ ॥ सत्यस्यः सत्यसकल्पः सत्यवित्सत्य (त्प) दस्तया
(१२१) | धर्मो धर्मी च कर्मी च सर्वकर्म्माविवर्जितः ॥ १९ ॥ कम्मंकर्त्ता
च कमँव क्रियाकाय्यं तथैव च । श्रीपतिर्नृपतिः (१३१) श्रीमान्सर्वस्य पति-
रूजितः ||२०|| स देवानां पतिश्चैव वृष्णीनां पतिरोडितः । पतिहिरण्यगर्भस्य
त्रिपुरान्तपतिस्तथा ॥२१॥ पशूनां च पतिः प्रायो वसूनां पतिरेव च ( १४०)।
१८६