English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 208

Puran Kavya Stotra Sudha - Page 208

Puran Kavya Stotra Sudha - Page 208


स्तो त्र यो गः - रुद्रस्तवः
विज्ञानं वेद्यरूपं च जीवो जोवयिता तथा (९५०) ॥ १५० ॥ भुवनाधिपति-
श्चंब भुवनानां नियामकः । पातालवासी पातालं सर्वज्वरविनाशनः ॥१५१॥
परमानन्दरूपी च धर्म्माणां च प्रवर्त्तकः | सुलभो दुर्लभश्चैव प्राणायामपर-
स्तथा (९६०) ॥ १५२ ॥ प्रत्याहारो धारकश्च प्रत्याहारकरस्तथा । प्रभा
कान्तिस्तया ह्यन्चिः शुद्धः स्फटिकसन्निभः ॥१५३॥ अग्राह्यश्चैव गौरश्च सर्वः
(९७०) शुचिरभिष्टुतः । वषट्कारो वषड् वौषट् स्वधा स्वाहा रतिस्तथा
||१५४|| पक्ता नन्दयिता (९८०) भोक्ता बोद्धा भावयिता तथा । ज्ञानात्मा
चैव ऊहात्मा भूमा सर्वेश्वरेश्वरः ||१५५॥ नदो नन्दी च नन्दीशो (९९०)
भारतस्तरुनाशनः । चक्रपः श्रीपतिश्चैव नृपाणां चक्रवत्तिनाम् ॥ १५६ ॥
ईशश्च सर्वदेवानां द्वारकासंस्थितस्तथा । पुष्करः पुष्कराध्यक्षः पुष्करद्वीप एव
च (१०००) ॥१५७।। भरतो जनको जन्यः सर्वाकारविवर्जितः । निराकारो
निनिमित्तो निरातङको निराश्रयः (१००८ ) | १५८ ॥ इति नामसहस्रं ते
वृषभध्वज कीर्तितम् । देवस्य विष्णोरीशस्य सर्वपापविनाशनम् ॥ १५९ ॥
पठन्द्रिजश्च विष्णुत्वं क्षत्त्रियो जयमाप्नुयात । वैश्यो धनं सुखं शूद्रो
विष्णुभक्तिसमन्वितः || १६० ॥
मुनय ऊचुः -
३२. रुद्रस्तत्रः
( कूर्म, उत्तरार्द्ध, ५ )
१९३
त्वामेकमीशं पुरुषं पुराणं प्राणेश्वरं रुद्रमनन्तयोगम् ॥
नमाम सर्वे हृदि सन्निविष्टं प्रचेतसं ब्रह्ममयं पवित्रम् ॥ २१ ॥
पश्यन्ति त्वां मुनयो ब्रह्मयोनि दान्ताः शान्ता निर्मलं रुक्मवर्णम् ॥
घ्यात्वात्मस्वप्रचलं स्वे शरीरे कवि परेभ्यः परमं परञ्च ॥ २२ ॥
त्वत्तः प्रसूता जगतः प्रसूतिः सर्वानुभूस्त्वं परमाणुभूतः ॥
अणोरणीयान्महतो महोयांस्त्वामेव सर्व प्रवदन्ति सन्तः ॥ २३ ॥
हिरण्यगर्भो जगदन्तरात्मा त्वत्तोऽस्ति जातः पुरुषः पुराणः ॥
सञ्जायमानो भवता निसृष्टो यथाविधानं सकलं स सद्यः ॥ २४ ॥
त्वत्तो वेदा: सकलाः संप्रसूतास्त्वय्येवान्ते संस्थिति ते लभन्ते ॥
पश्यामस्त्वां जगतो हेतुभूतं नृत्यन्तं स्वे हृदये सन्निविष्टम् ॥ २५ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP