- त्रिपुर वर्णनम्
का व्य यो गः -
भो सुरेन्द्राधुना सर्वे निबोधध्वं प्रभाषितम् ॥
यत्कर्तव्यं मया चैव युष्माभिश्च महाबलेः ॥ २ ॥
पुष्यं समेष्यते काले चन्द्रश्चन्द्रनिभाननाः ||
यदकं त्रिपुरं सर्वं क्षणमेकं भविष्यति ॥ ३ ॥
कुरुध्वं निर्भया: काले कोकिलाशंसितेन च ॥
स काल: पुष्ययोगस्य पुरस्य च मया कृतः ॥ ४॥
काले तस्मिन्पुरे यस्तु संभावयति संहतिम् ॥
स एनं कारयेच्चूर्णं बलिनैकेषुणा सुरः ॥ ५ ॥
यो वः प्राणो बलं यच्च या च वो वैरिताऽसुराः ॥
तत्कृत्वा हृदये चैव पालयध्वमिदं पुरम् ॥ ६॥
महेश्वररथं ह्येकं सर्वप्राणेन भीषणम् ||
विमुखीकुरुतात्यर्थं यथा नोत्सृजते शरम् ॥ ७॥
तत एवं कृतेऽस्माभिस्त्रिपुरस्यापि रक्षणे ||
प्रतीक्षिष्यन्ति विवशाः पुष्ययोगं दिवौकसः ॥ ८ ॥
इति संमंत्र्य हृष्टास्ते पुरान्तविबुधारयः ||
प्रदोषे मुदिता भूत्वा चेरुर्मन्मथचारताम् ॥ १४ ॥ ]
मुहुर्मुक्तोदयो भ्रान्त उदयाग्रं महामणिः ॥
तमांस्युत्सार्य भगवांश्चन्द्रो जृम्भति सोऽम्बरम् ॥ १५ ॥
कुमुदालङकृते हंसो यथा सरसि विस्तृते ||
सिंहो यथा चोपविष्टो वैदूर्यशिखरे महान् ॥ १६ ॥
विष्णोर्यथा च विस्तीर्ण हारश्चोरसि संस्थितः ||
तथावगाढे नभसि चन्द्रोऽत्रिनयनोद्भवः ॥
भ्राजते भ्राजयँल्लोकान्सृजञ्ज्योत्स्नारसं बलात् ॥ १७ ॥
शीतांशाबुदिते चन्द्रे ज्योत्स्नापूर्णे पुरेऽसुराः ||
प्रदोषे ललितं चॠगृहमात्मानमेव च
रथ्यासु राजमार्गेषु प्रासादेषु गृहेषु च ॥
दीपाश्चम्पकपुष्पाभा नाल्पस्नेहप्रदीपिताः ॥ १९ ॥
१८॥
तदा मठेषु ते दीपा: स्नेहपूर्णा: प्रदीपिताः ॥
गृहाणि वसुमन्त्येषां सर्वरत्नमयानि च ॥
ज्वलतोऽदीपयन्दीपांश्चन्द्रोदय इव ग्रहाः (हान् ) ॥ २० ॥
१२१