English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 176

Puran Kavya Stotra Sudha - Page 176

Puran Kavya Stotra Sudha - Page 176


स्तो त्र यो गः
- -विष्णुकवचम्
वराहो रक्षतु जले विषमेषु च वामनः ||
अटव्यां नारसिंहश्च सर्वतः पातु केशवः ॥ १० ॥
हिरण्यगर्भो भगवान् हिरण्यं मे प्रयच्छतु ||
सांख्याचार्य्यस्तु कपिलो धातुसाम्यं करोतु मे ॥ ११ ॥
श्वेतद्वीपनिवासी च श्वेतद्वीपं नयत्वजः ||
सर्वान् शत्रून् सूदयतु मधुकैटभसूदनः ॥ १२ ॥
विष्णुः सदा चाकर्षत किल्बिषं मम विग्रहात् ||
हंसो मत्स्यस्तथा कूर्मः पातु मां सर्वतो दिशम् ॥ १३ ॥
त्रिविक्रमस्तु मे देवः सर्वान्पापान निगृह्णतु ||
तथा नारायणो देवो बुद्धि पालयतां मम ॥ १४ ॥
शेषो मे निर्मलं ज्ञानं करोत्वज्ञाननाशनम् ॥
वडवामुखो नाशयतु कल्मषं यत्कृतं मया ॥ १५ ॥
पद्भ्यां ददातु परमं सुखं मूर्ध्नि मम प्रभुः ॥
दत्तात्रेयः कलयतु सपुत्रपशुबान्धवम् ॥ १६ ॥
सर्वानरीन् नाशयतु रामः परशुना मम ॥
रक्षोघ्नस्तु दाशरथिः पातु नित्यं महाभुजः ॥ १७ ॥
शत्रून्हलेन मे हन्यात् रामो यादवनन्दनः ॥
प्रलम्बकेशिचाणूरपूतनाकंसनाशनः ॥
कृष्णस्य यो बालभावः स मे कामान्प्रयच्छतु ॥ १८ ॥
अन्धकारतमोघोरं पुरुषं कृष्णपिङ्गलम् ||
पश्यामि भयसन्त्रस्तः पाशहस्तमिवान्तकम् ॥ १९ ॥
ततोऽहं पुण्डरीकाक्षमच्युतं शरणं गतः ॥
धन्योऽहं निर्भयो नित्यं यस्य मे भगवान्हरिः ।। २० ।।
ध्यात्वा नारायणं देवं सर्वोपद्रवनाशनम् ||
वैष्णवं कवचं बद्ध्वा विचरामि महीतले ॥ २१ ॥
अप्रधृष्योऽस्मि भूतानां सर्वदेवमयो ह्यहम् ||
स्मरणाद्देवदेवस्य विष्णो रमिततेजसः ॥ २२ ॥
सिद्धिर्भवतु मे नित्यं यथा मन्त्रमुदाहृतम् ||
यो मां पश्यति चक्षुर्भ्यां यं च पश्यामि चक्षुषा ॥ २३ ॥
२१
१६१

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP