English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 221

Puran Kavya Stotra Sudha - Page 221

Puran Kavya Stotra Sudha - Page 221


२०६
पुराणकाव्यस्तोत्रसुधा ।
भक्त्या मयाचितो मह्यं प्राथितं शं प्रयच्छतु ॥
सदाशिवाङकमारूढा शक्तिरिच्छा शिवाह्वया ॥ २२॥
जननी सर्वलोकानां प्रयच्छतु मनोरथम् ॥
शिवयोर्दयिता पुत्रौ देवौ हेरम्बषम्मुखौ ||२३||
शिवानुभावौ सर्वज्ञौ शिवज्ञानामृताशिनौ ॥
तृप्तौ परस्परं स्निग्धौ शिवाभ्या नित्यसत्कृतौ ॥ २४॥
सत्कृतौ च सदा देवौ ब्रह्माद्यस्त्रिदशैरपि ||
सर्वलोकपरित्राणं कर्तुमभ्युदितौ सदा ||२५||
वतारं कुर्वन्तौ स्वांशभेदैरनेकशः ॥
ताविमौ शिवयोः पाश्र्व नित्यमित्थं मयाचितौ ॥
तयोराज्ञां पुरस्कृत्य प्रार्थितं मे प्रयच्छताम् ॥ २६॥
शुद्धस्फटिक सङकाशमोशानाख्यं सदाशिवम् ||
मूर्द्धाभिमानिनी मूर्तिः शिवस्य परमात्मनः ||२७||
शिवार्चनरतं शान्त शान्त्यतीतं खमास्थितम् ॥
पञ्चाक्षरान्तिमं बीजं कलाभिः पञ्चभिर्युतम् ॥ २८ ॥
प्रथमावरणे पूर्व शक्त्या सह समचतम् ॥
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ||२९||
बालसूर्यप्रतीकाशं पुरुषाख्यं पुरातनम् ॥
पूर्ववक्त्राभिमानं च शिवस्य परमेष्ठिनः ॥३०॥
शान्त्यात्मकं मरुत्संस्थं शंभोः पादार्चने रतम् ॥
प्रथमं शिवबीजेषु कलासु च चतुष्कलम् ॥३१॥
पूर्वभागे मया भक्त्या शक्त्या सह सर्वाचितम् ||
पवित्रं परमं ब्रह्म प्रार्थितं मे प्रयच्छतु ||३२||
४१. शिवस्तोत्रम्
( शिव, रुद्रसंहिता. )
सन्ध्यावाच -
निराकारं ज्ञानगम्यं परं यत्रैव स्थूलं नापि सूक्ष्मं न चोच्चम् ||
अन्त श्चिन्त्य योगिभिस्तस्य रूपं तस्मं तुभ्यं लोककत्रे नमोऽस्तु ||११||

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP