English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 96

Puran Kavya Stotra Sudha - Page 96

Puran Kavya Stotra Sudha - Page 96


व्यवहारचातुर्ययोगः–धर्मपालनम्
५२९ पारलौकिककार्येषु कः प्रतीक्षितुमुत्सहे ॥
न यस्य सौहृदं ब्रह्मन्कृतानेन बलीयसा ॥ ६ ॥
५३० धर्ममार्गे त्वरा कार्या चलं यस्माद्धि जीवितम् ॥
धर्ममार्गे रतो जन्तुर्मृतोऽपि सुखमश्नुते ॥ ७ ॥
५३१ प्राणो वायुश्चलत्वं च वायोविदितमेव च ॥
अत्र यज्जीव्यते ब्रह्मन्क्षणमात्रं तदद्भुतम् ॥ ८ ॥
विष्णुधर्मोत्तर, प्र. सं., ११७.
५३२ घर्मश्चार्यश्च कामश्च त्रिवर्गं जीवतः फलम् ॥
धर्महीनस्य कामार्थी वन्ध्यासुतसमावुभौ ॥ ४॥
५३३ धर्मादर्थस्तथा कामो धर्माल्लोकद्वयं तथा ॥
धर्म एकोऽनुयात्येनं यत्र कुत्र च गामिनम् ॥ ५ ॥
५३४ शरीरेण समं नाशं सर्वमन्यद्धि गच्छति ॥
एको हि जायते जन्तुरेक एव विपद्यते ॥ ६ ॥
५३५ धर्मस्तमनुयात्येको न सुहृन्न च बान्धवाः ॥
रूपसौभाग्यलावण्यं संपद्धर्मेण लभ्यते ॥ ७॥
५३६ धर्मो माता पिता धर्मो धर्मो बन्धुः सुहृत्तथा ॥
आधारः सर्वभूतानां त्रैलोक्ये सचराचरे ॥ ६ ॥
८१
Ibid, द्वि. सं., ३९.
स्कांद, आवन्त्यखं, रेवाखं., १३३.
५३७ धर्मः सुदुर्लभः पुंसां विशेषेण महीक्षिताम् ॥ ६६ ॥
५३८ यदि राजा मदाविष्टः स्वधर्मं न परित्यजेत् ॥
ततो जगति कस्तस्मात्पुमानप्यधिको भवेत् ॥ ६७ ।।
५३९ ध्रुवं जन्म सदा राज्ञां मोहश्चापि सदा ध्रुवः ॥
मोहाद् ध्रुवश्च नरको राज्यं विन्दन्त्यतो बुधाः ॥ ६८ ॥
आत्मगुण ( ४ ) - भावाद्धः
५४० स्वमूर्तिः क्षालिता तोर्थे न शुद्धि मधिगच्छति ॥
अन्तर्भाव प्रदुष्टस्य विशतोऽपि हुताशनम् ॥ ८५ ॥
११
Ibid, प्र. क्षे. मा., ३३८.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP