English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 216

Puran Kavya Stotra Sudha - Page 216

Puran Kavya Stotra Sudha - Page 216


स्तो त्र यो गः-
:- सोमनाथस्तवनम्
चराचराचारविचारवर्यमाचार्यमुत्प्रेक्षितभूतसर्गम् ॥
त्वामिन्दुमल शरणं प्रपन्ना प्रियाप्रमेयं महतां महेशम् ॥ २६८ ॥
प्रयच्छ मे कामयशः समृद्धि पुनः प्रभो जीवतु कामदेव: ॥
प्रियं विना त्वां प्रियजीवितेषु त्वत्तोऽपरः को भुवनेष्विहास्ति || २६९ ॥
प्रभुः प्रियायाः प्रसवः प्रियाणां प्रणीतपर्यायपरापरार्थः ॥
त्वमेवमेको भुवनस्य नाथो दयालुरुन्मूलितभक्तभोतिः ॥ २७० ॥
दत्त उवाच -
३७. सोमनाथस्तवनम्
( ब्रह्म, गौतमीमा, ४७ )
२०१
संसारकूपे पतितोऽस्मि दैवान्मोहेन गुप्तो भवदुःखपड्के ।
अज्ञाननाम्ना तमसाऽऽवृतोऽहं परं न विन्दामि सुराधिनाथ ॥ ७ ॥
भिन्नस्त्रिशूलेन बलीयसाऽहं पापेन चिन्ताक्षुरपाटितश्च ॥
तप्तोऽस्मि पञ्चेन्द्रियतीव्रतापः श्रान्तोऽस्मि संतारय सोमनाथ ॥८॥
बद्धोऽस्मि दारिद्र्य मयंश्च बन्धैर्हतोऽस्मि रोगानलतीव्रतापैः ॥
ऋान्तोऽस्म्यहं मृत्युभुजङगमेन भोतो भृशं कि करवाणि शंभो ॥९॥
भवाभवाभ्यामतिपोडितोऽहं तृष्णाक्षुषाभ्यां च रजस्तमोभ्याम् ॥
ईदृक्षया जरया चाभिभूतः पश्यावस्थां कृपया मेऽद्य नाथ ॥१०॥
कामेन कोपेन च मत्सरेण दम्भेन दर्पादिभिरप्यनेकैः ।।
एकैकश: कष्टगतोऽस्मि विद्धस्त्वं नाथवद्वारय नाथ शत्रून् ॥ ११॥
कस्यापि कश्चित्पतितस्य पुंसो दुःखप्रणोदी भवतीति सत्यम् ॥
विना भवन्तं मम सोमनाथ कुत्रापि कारुण्यवचोऽपि नास्ति ॥ १२॥
तावत्स कोपो भयमोहदुःखान्यज्ञानदारिद्र्यरुजस्तथैव ॥
कामादयो मृत्युरपीह यावन्नमः शिवायेति न वच्मि वाक्यम् ॥१३॥
न मेऽस्ति धर्मो न च मेऽस्ति भक्तिर्नाहं विवेकी करुणा कुतो मे ॥
दाताऽसि तेनाऽशु शरण्य चित्ते निषेहि सोमेति पदं मदीये ॥१४॥
याचे न चाहं सुरभूपतित्वं हृत्पद्यमध्ये मम सोमनाथ ॥
श्रीसोमपादाम्बुज संनिधानं याचे विचार्येव च तत्कुरुष्व ॥१५॥
यथा तवाहं विदितोऽस्मि पापस्तथाऽपि विज्ञापनमाश्रुणुष्व ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP