१५०
पुराणकाव्यस्तोत्रसुधा ।
वायवस्तत्र वाद्यं च चक्रुः सुस्वरमोजसा ॥
महेन्द्रो वंशवाद्यं च सुगिरं सुस्वरं बहुः ॥ ४८ ॥
वह्निः शूर्परवं चक्रे पणव च तथाश्विनौ ॥
उपांगवादनं चक्रे सोमः सूर्यः समंततः ॥ ४९ ॥
घंटानां वादनं चक्रुर्गणाः शतसहस्रशः ||
मुनीश्वरास्तथा देव्यः पार्वतीसहितास्तथा ॥ ५० ॥
स्वर्णभद्रासनेष्वेते ह्युपविष्टा व्यलोकयन् ||
शृंगाणां वादनं चक्रुर्वसवः समहोरगाः || ५१ ।।
भेरीध्वनि तथा साध्या वाद्यान्यन्ये सुरोत्तमाः ॥
झर्झरीगोमुखादीनि साध्याश्चकुर्महोत्सवे ॥ ५२ ॥
तन्त्रीलयसमायुक्ता गंधर्वा मथुरस्वराः ॥
सुवर्णशृंगनादं च चक्रुः सिद्धाः समंततः ॥ ५३ ॥
ततस्तु भगवानोसन्महानटवपुर्धरः ॥
मुकुटाः पञ्चशीर्षे तु पन्नगै रुपशोभिताः ॥ ५४ ॥
जटा विमुच्य सकला भस्मोद्धूलितविग्रहः ||
बाहुभिर्दशभिर्युक्तो हारकेयूरसंपुतः ॥ ५५ ॥
त्रैलोक्यव्यापकं रूपं सूर्यकोटिसमप्रभम् ॥
कृत्वा ननर्त भगवान्भासुरं स महानगे ॥ ५६ ॥
ततो वीणादिकं वाद्यं कांस्यतालादिकं धनम् ॥
वंशादिकं तु वादित्रं तोमरादिकनामकम् ॥ ५७ ॥
चतुर्विधं ततो वाद्यं तुमुलं समजायत ||
तालानां पटहादीनां हस्तकानां तथैव च ॥ ५८ ॥
मानानां चैव तानानां प्रत्यक्षं रूपमाबभौ ॥
सुकण्ठं सुस्वरं मुक्तं सुगम्भीरं महास्वनम् ॥ ५९ ॥
विश्वावसुर्नारदश्च तुंबुरुश्चैव गायकाः ॥
जगुर्गन्धर्वपतयोऽप्सरसो मधुरस्वराः ॥ ६० ॥
ग्रामत्रय समोपेतं स्वरसप्तकसंयुतम् ॥
दिव्यं शुद्धं च सांकल्पं तत्र गेयमवर्तत ॥ ६१ ॥