English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 254

Puran Kavya Stotra Sudha - Page 254

Puran Kavya Stotra Sudha - Page 254


स्तो त्र यो गः –
- देवीसहस्रनामस्तोत्रम्
त्वमोङ्कारः स्थिता देवि वेदोत्पत्तिस्त्वमेव च ॥
देवानां दानवानां च यक्षगन्धर्वरक्षसाम् ||१२||
पशूनां वीरुधां चापि त्वमुत्पत्तिर्वरानने ॥
विद्या विद्येश्वरी सिद्धा प्रसिद्धाहं सुरेश्वरी ॥१३॥
सर्वज्ञा त्वं वरारोहे सर्वसिद्धिविधायिनी ॥
सर्वगा गतसन्देहा सर्वशत्रुनिर्वाहणी ||१४||
सर्वविद्येश्वरी देवि नमस्ते स्वस्तिकारिणि ॥
ऋतुस्नातां स्त्रियं गच्छेद्यस्त्वां स्मृत्वा वरानने ॥१५॥
तस्यावश्यं भवेत्सृष्टिस्त्वत्प्रसादात्प्रजेश्वरि ॥
स्वरूपा विजया भद्रे सर्वशत्रुविनाशिनी ॥ १६ ॥
६८. सावित्रीस्तवः
( स्कान्द, प्र. क्षे. मा., १६५ )
नमोऽस्तु ते महादेवि भूर्भुव: स्वस्त्रयीमयि ||
सावित्रि दुर्गत रिणि त्वं वाणी सप्तधा स्मृता ॥ ११५॥
सर्वाणि स्मृतिशास्त्राणि लक्षणानि तथैव च ॥
भविष्या सर्वशास्त्राणां त्वं तु देवि नमोऽस्तु ते ॥११६ ||
श्वेता त्वं श्वेतरूपासि शशाङ्केन समानना ॥
शशिरश्मिप्रकाशेन हरिणोरसि राजसे ॥
दिव्यकुण्डलपूर्णाभ्यां श्रवणाभ्यां विभूषिता ॥११७॥
त्वं सिद्धिस्त्वं तथा ऋद्धिः कीर्तिः श्री संततिर्मतिः ॥
संध्यारात्रिप्रभातस्त्वं कालरात्रिस्त्वमेव च ॥ ११८ ॥
कर्षकाणां यथा सीता भूतानां धारिणी तथा ॥
एवं स्तुवन्तं सावित्री विष्णुं प्रोवाच सुव्रता ॥११९॥
६९. देवीसहस्रनामस्तोत्रम्
( कूर्मपुराण, १२. )
२३९
हिमवानुवाच -
शिवोमा परमा शक्तिरनन्ता निष्कलामला । शान्ता माहेश्वरी नित्या
शावती परमाक्षरा ||६२|| अचिन्त्या केवलानन्त्या शिवात्मा परमात्मिका |

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP