English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 113

Puran Kavya Stotra Sudha - Page 113

Puran Kavya Stotra Sudha - Page 113


पुराणकाव्यस्तोत्रसुधा |
चतुभिरेभिः पृथुनामधेयो नृपोऽभिषिक्तः प्रथमं पृथिव्याम् ॥
गतेन्तरे चाक्षुषनामधेये वैवस्वताख्ये च पुनःप्रवृत्ते ॥
प्रजापतिः सोऽस्य चराचरस्य बभूव सूर्यान्वयवंशचिन्हः ॥ १२ ॥
२. महारासवर्णनम्
[The Rasa Dance of Krisna and Gopis in Gokula has
engrossed the attention of eminent writers, and men and
women devotees of Lord Krisna. The Vișņu and Bhagavata
Parāṇas seem to be the early sources of the same. ]
( भागवत, १०.२९.)
९८
भगवानपि ता रात्रीः शरदोत्फुल्लमल्लिकाः ।
वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः ॥ १ ॥
तदोडुराजः ककुभः करैर्मुखं प्राच्या विलिम्पन्नरुणेन शन्तमैः ॥
स चर्षणीनामुदगाच्छुचो मृजन् प्रियः प्रियाया इव दीर्घदर्शनः ॥ २ ॥
दृष्ट्वा कुमुद्वन्तमखण्डमण्डलं रमाननाभं नवकुङकुमारुणम् ।।
वनं च तत्कोमलगोभिरञ्जितं जगौ कलं वामदृशां मनोहरम् ॥ ३ ॥
निशम्य गोतं तदनजगवर्धनं व्रजस्त्रियः कृष्णगृहीतमानसाः ||
आजग्मुरन्योन्यमलक्षितोद्यमः स यत्र कान्तो जवलोलकुण्डलाः ॥ ४ ॥
दुहन्त्योऽभिययुः काश्चिद् दोहं हित्वा समुत्सुकाः ॥
पयोऽघिश्रित्य संयावमनुद्वास्यापरा ययुः ॥ ५॥
परिवेषयन्त्यस्तद्धित्वा पाययन्त्यः शिशून्पयः ॥
शुश्रूषन्त्यः पतीन्काश्चिदश्नन्त्योऽपास्य भोजनम् ॥ ६ ॥
लिम्पन्त्यः प्रमृजन्त्योऽन्या अञ्जन्त्यः काश्च लोचने ॥
व्यत्यस्तवस्त्राभरणाः काश्चित्कृष्णान्तिकं ययुः ॥ ७ ॥
ता वार्यमाणाः पतिभिः पितृभिर्भ्रातृबन्धुभिः ||
गोविन्दापहृतात्मानो न न्यवर्तन्त मोहिताः ॥ ८ ॥
अन्तर्गृहगताः काश्चिद् गोप्योऽलब्धविनिर्गमाः ॥
कृष्णं तद्भावनायुक्ता दयुर्मीलितलोचनाः ॥ ९ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP