English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 45

Puran Kavya Stotra Sudha - Page 45

Puran Kavya Stotra Sudha - Page 45


पुराणकाव्यस्तोत्रसुधा ।
अपि कल्पानिलस्यैव तुरगस्य महोदधेः ॥
शक्यते प्रसरो बोद्धुं न ह्यरक्तस्य चेतसः ॥ ८ ॥
क्षणो नास्ति रहो नास्ति नास्ति प्रार्थपिता जनः ॥
तेन शौनक नारीणां सतीत्वमुपजायते ॥ ९ ॥
एकं वै सेवते नित्यमन्यश्चेतसि रोचते ॥
पुरुषाणामलाभेन नारी चैव पतिव्रता ॥ १० ॥
जननो यानि कुरुते रहस्यं नदनातुरा ||
सुतस्तानि न चिन्त्यानि शोलविप्रतिपत्तिभिः ॥ ११ ॥
पराधीन! निद्रा परहृदयकृत्यानुसरणं
सदा हेला हास्यं नियतमपि शोकेन रहितम् ॥
पणे न्यस्तः कायो विटजनखुरैर्दारितगलो
बहूत्कण्ठावृत्तिर्जगति गणिकाया बहुमतः ॥ १२ ॥
अग्निरापः स्त्रियो मूर्खा: सर्पा राजकुलानि च ॥
नित्यं परोपसेव्यानि सद्यः प्राणहराणि षट् ॥ १३ ॥
कि चित्रं यदि वेद (शद ) शास्त्रकुशलो विप्रो भवेत्पण्डितः
कि चित्रं यदि दण्डनीतिकुशलो राजा भवेद्धामिकः ॥
कि चित्रं यदि रूपयौवनवती साध्वी भवेत्कामिनी
तच्चित्रं यदि निर्धनोऽपि पुरुषः पापं न कुर्यात्क्वचित् ॥ १४ ॥
नात्मच्छिद्रं परे दद्याहिद्याच्छिद्रं परस्य च ॥
गुहेत्कूर्म इवाङगानि परभावञ्च लक्षयेत् ॥ १५ ॥ -
पातालतलवासिन्य उच्चप्राकारसंस्थिताः ||
यदि नो चिकुरोद्भेदालभ्यंते कैः स्त्रियो न हि ॥ १६ ॥
समधर्मा हि मर्मज्ञस्तीक्ष्णः स्वजनकण्टकः ||
न तथा बाघते शत्रुः कृतवँरो बहिः स्थितः ॥ १७ ॥,
स पण्डितो यो ह्यनुरञ्जयेद्वै
मिष्टेन बालं विनयेन शिष्टम् ॥
अथन नारी तपसा हि देवा-
न्सर्वारच लोकांदच सुसङ्ग्रहेण ॥ १८ ॥.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP