English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 49

Puran Kavya Stotra Sudha - Page 49

Puran Kavya Stotra Sudha - Page 49


३४
पुराणकाव्यस्तोत्रसुधा ।
एकेनापि सुपुत्रेण विद्यायुक्तेन घोमता ॥
कुलं पुरुषसहेन चन्द्रेण गगनं यथा ॥ ५६ ॥
एकेनापि सुवृक्षेण पुष्पितेन सुगन्धिना ||
वनं सुवासितं सर्वं सुपुत्रेण कुलं यथा ॥ ५७ ॥
एको हि गुणवान्पुत्रो निर्गुणेन शतेन किम् ||
चन्द्रो हन्ति तमांस्येको न च ज्योतिःसहस्रकम् ॥ ५८ ॥
लालयेत्पञ्चवर्षाणि दशवर्षाणि ताडयेत् ||
प्राप्ते तु षोडशे वर्षे पुत्रं मित्रवदाचरेत् ॥ ५९ ॥
जायमानो हरेद्दारान् वर्द्धमानो हरेद्धनम् ||
त्रियमाणो हरेत्प्राणान्नास्ति पुत्रसमो रिपुः ॥ ६० ॥
केचिन्मृगमुखा व्याघ्राः केचिद्व्याघ्रमुखा मृगाः ॥
तत्स्वरूपपरिज्ञाने ह्यविश्वासः पदे पदे ॥ ६१ ॥
एक: क्षमवतां दोषो द्वितीयो नोपपद्यते ॥
यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥ ६२ ॥
एतदेवानुमन्येत भोगा हि क्षणभंगिनः ॥
स्निग्धेषु च विदग्धस्य मतयो वै ह्यनाफुलाः ॥ ६३ ॥
ज्येष्ठः पितृसमो भ्राता मृते पितरि शौनक |
सर्वेषां स पिता हि स्यात्सर्वेषामनुपालकः ॥ ६४ ॥
कनिष्ठेषु च सर्वेषु समत्त्वेनानुवर्त्तते ॥
समोपभोगजीवेषु यथैवं तनयेषु च ॥ ६५ ॥
बहूनामल्पसाराणां समवायो हि दारुणः ॥
तृणैरावेष्टितो रज्जुस्तया नागोऽपि बध्यते ॥ ६६ ॥
अपहृत्य परस्वं हि यस्तु दानं प्रयच्छति ॥
स दाता नरकं याति यस्यार्थास्तस्य तत्फलम् ॥ ६७ ॥
देव द्रव्यविनाशेन ब्रह्मस्वहरणेन च ॥
कुलान्याकुलतां यान्ति ब्राह्मणातिक्रमेण च ।। ६८ ॥
ब्रह्मध्ने च सुरापे च चोरे भग्नव्रते तथा ॥
निष्कृतिविहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥ ६९ ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP