English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 207

Puran Kavya Stotra Sudha - Page 207

Puran Kavya Stotra Sudha - Page 207


१९२
पुराणकाव्यस्तोत्रसुधा ।

रथस्थ: सारथिर्बलम् || १२८ ॥ धनी धनप्रद्रो धन्यो यादवानां हिते रतः ।
अर्जुनस्य प्रियश्चैव ह्यर्जुनो (८१०) भीम एव च ॥१२९॥ पराक्रमो दुविषहः
सर्वशास्त्रविशारदः । सारस्वतो महाभीष्मः पारिजातहरस्तथा ॥ १३० ॥
अमृतस्य प्रदाता च क्षीरोदः क्षीर एव च । इन्द्रात्मजस्तस्य गोप्ता गोवर्द्धन-
घरस्तथा ॥ १३१ ॥ कंसस्य नाशनस्तद्वद्धस्तिपो हस्तिनाशनः । शिपिविष्ट:
प्रसन्नञ्च सर्वलोकात्तिनाशनः || १३२ || मुद्रो (८३०) मुद्राकरश्चैव सर्व-
मुद्रा विवजितः । देही देहस्थितश्चैव देहस्य च नियामकः || १३३ ॥ श्रोता
श्रोत्रनियन्ता च श्रोतव्यः श्रवणं तथा| त्वस्थितश्च (८४०) स्पर्शयिता
स्पृश्यं च स्पर्शनं तथा ॥ १३४|| रूपद्रष्टा च चक्षुःस्थो नियन्ता चक्षुषस्तथा ।
दृश्यं चैव तु जिह्वास्थो रसज्ञश्च नियामकः ( ८५०) || १३५ || घ्राणस्थो
प्राणकृद् प्राता घ्राणेन्द्रियनियामकः । वाक्स्थो वक्ता च वक्तव्यो वचनं
वाङनियामकः ॥ १३६ || प्राणिस्थ: ( ८६०) शिल्पकृच्छिल्पो हस्तयोश्च
नियामकः । पदव्यश्चैव गन्ता च गन्तव्यं गमनं तथा ॥ १३७ || नियन्ता
पादयोश्चैव पाद्यभाक्च विसर्गकृत् (८७०) । विसर्गस्य नियन्ता च ह्य पस्थस्थः
सुखं तथा ॥ १३८|| उपस्थस्य नियन्ता च तदानन्दकरश्च ह । शत्रुघ्नः कार्त्त-
वीर्य्यश्च दत्तात्रेयस्तथैव च ॥ १३९॥ अलर्कस्य हितश्चैव कर्तवीर्य्य निकृन्तनः
( ८८० ) | कालनेमिर्महानेमिर्मेधो मेघपतिस्तथा ॥१४०|| अन्नप्रदोऽन्नरुपी च
ह्यनादोऽन्नप्रवर्तकः । धूमकुमरूपश्च ( ८९० ) देवकोपुत्र उत्तमः ।। १४१ ॥
देवक्यानन्दनो नन्दो रोहिण्याः प्रिय एव च । वसुदेवप्रियश्चैव वसुदेवसुतस्तथा
|| १४२ || दुन्दुभिर्हासरूपश्च पुष्पहासस्तथैव च ( ९०० ) 1· अट्टहासप्रियश्चंद
सर्वाध्यक्षः क्षरोऽक्षरः ||१४३|| अच्युतश्चैव सत्येशः सत्यायाश्च प्रियो वरः ।
रुक्मिण्याश्च पतिश्चैव रुक्मिण्या वल्लभस्तता ||१४४|| गोपीनां वल्लभश्चैव
(९१०) पुण्यश्लोकश्च विश्रुतः । वृषाकपियंमो गृह्यो मङगलश्च बुधस्तथा
॥१४५॥ राहुः केतुर्ग्रहो ग्राहो (९२०) गजेन्द्रमुखमेलकः । ग्राहस्य विनिहन्ता
च ग्रामणी रक्षकस्तथा ॥ १४८॥ किन्नरश्चैव सिद्धश्च छन्दः स्वच्छन्द एव च ।
विश्वरूपो विशालाक्षो ( ९३०) दैत्यसूदन एव च ॥ १४७॥ अनन्तरूपो भूतस्यो
देवदानवसंस्थितः । सुषुप्तिस्थ: सुषुप्तिश्च स्थानं स्थानान्त एव च ॥१४॥
जगत्स्थश्चैव जागर्ता स्थानं जागरितं तथा (९४० ) | स्वप्नस्थ: स्वप्नवित्स्व-
प्नस्थानं स्वप्नस्तथैव च ॥ १४९॥ जाग्रत्स्वप्नसुषुप्तैश्च विहीनो वै चतुर्थकः |

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP