२८
पुराणकाव्यस्तोत्रसुधा ।
एकवृक्षे सदारात्रौ नानापक्षिसमागमः ॥
प्रभातेऽन्यदिशो यान्ति का तत्र परिवेदना ॥ ४६ ॥
एकसार्थप्रयातानां सर्वेषां यत्र गामिनाम् ॥
यस्त्वेकस्त्वरितो याति का तत्र परिवेदना ॥ ४७ ॥
अव्यक्तादीनि भूतानि व्यक्तमध्यानि शौनक ||
अव्यक्त निधनान्येव का तत्र परिवेदना ॥ ४८ ॥
नाप्राप्तकालो म्रियते विद्धः शरशतैरपि ॥
कुशाग्रेण तु संस्पृष्टः प्राप्तकालो न जीवति ॥ ४९ ॥
लब्धव्यान्येव लभते गन्तव्यान्येव गच्छति ॥
प्राप्तव्यान्येव प्राप्नोति दुःखानि च सुखानि च ॥ ५० ॥
तत्तत्प्राप्नोति पुरुषः कि प्रलापैः करिष्यति ॥
अचोद्यमानानि यथा पुष्पाणि च फलानि च ॥
स्वकालं नातिवर्त्तन्ते तथा कर्म पुराकृतम् ॥ ५१ ॥
शोलं कुलं नैव न चैव विद्या
ज्ञानं गुणा नँव न बीजशुद्धिः ॥
भाग्यानि पूर्व तपसाजितानि
काले फलन्त्यस्य यथैव वृक्षाः ॥ ५२ ॥
तत्र मृत्युयंत्र हन्ता तत्र श्रीर्यत्र सम्पदः ||
तत्र तत्र स्वयं याति प्रेर्यमाणः स्वकर्मभिः ॥ ५३ ॥
भूतपूर्वं कृतं कर्म कर्तारमनुतिष्ठति ॥
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ॥ ५४ ॥
एवं पूर्वकृतं कर्म कर्तारमनुतिष्ठति ॥
सुकृतं भुंक्ष्व चात्मीयं मूढ कि परितप्यते ॥ ५५ ॥
यथा पूर्वकृतं कर्म शुभं वा यदि वाऽशुभम् ॥
तथा जन्मान्तरे तद्वै कर्त्तारमनुगच्छति ॥ ५६ ॥
नोचः सर्वपमात्राणि परच्छिद्राणि पश्यति ॥
आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यति ॥ ५७ ॥
रागद्वेषादियुक्तानां न सुखं कुत्रचिद्विज ॥
विचार्य खलु पश्यामि तत्सुखं यत्र निर्वृतिः ॥ ५८ ॥