English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 17

Puran Kavya Stotra Sudha - Page 17

Puran Kavya Stotra Sudha - Page 17


पुराणकाव्यस्तोत्रसुवा ।
लालने बहवो दोषास्ताडने बहवो गुणाः ॥
तस्माच्छिष्यं च पुत्रं च ताडयेन्न तु लालयेत् ॥ ९॥
अध्वा जरा देहवतां पर्वतानां जलं जरा ॥
असंभोगश्च नारीणां वस्त्राणामातपो जरा ॥१०॥
अधमा: कलिमिच्छन्ति सन्धिमिच्छन्ति मध्यमाः ॥
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥ ११ ॥
मानो हि मूलमर्थस्य माने सति धनेन किम् ॥
प्रभ्रष्टमानदर्पस्य कि घनेन किमायुषा ॥ १२॥
अधमा घनमिच्छन्ति धनमानौ हि मध्यमाः ।।
उत्तमा मानमिच्छन्ति मानो हि महतां धनम् ॥१३॥
वनेऽपि सिंहा न नमन्ति कर्णं
बुभूक्षिता नांशनिरीक्षणं च ॥
घनैविहीनाः सुकुलेषु जाता
न नोचकर्माणि समारभन्ते ॥१४॥
नाभिषेको न संस्कारः सिंहस्य क्रियते वने ॥
नित्यमूजितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥ १५॥३
वणिक्प्रमादी भूतकश्च मानी.
भिक्षुविलासी ह्यघनश्च कामी ||
वराजगना चाप्रियवादिनी च
न ते च कर्माणि समारभन्ते ॥ १६॥
दाता दरिद्रः कृपणोऽर्थयुक्तः
पुत्रोऽविधेयः कुजनस्य सेवा ||
परोपकारेषु नरस्य मृत्युः
प्रजायते दुश्चरितानि पञ्च ॥१७॥
कान्तावियोगः स्वजनापमानं
ॠणस्य शेष: कुजनस्य सेवा ॥
दारिद्रयभावाद्विमुखाश्च मित्रा
विनाग्निना पञ्च दहन्ति तीव्राः ॥१८॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP