English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 51

Puran Kavya Stotra Sudha - Page 51

Puran Kavya Stotra Sudha - Page 51


पुराणकाव्यस्तोत्रसुधा ।
विदुषामपि शिष्याणां पुत्राणां च क्रियावताम् ||
अपृष्टमपि वक्तव्यं श्रेयः श्रद्धावतां हितम् ॥ १९ ॥
Ibid, पातालखण्ड, अ. ११०.
३ दशसूनासमश्चक्री दशचक्रोसमो ध्वजः in
दशध्वजसमा वेश्या दशवेश्यासमो नृपः ॥
Ibid, सृष्टिखण्ड, अ. १९; भविष्य, उ. प. २३६.
तण्डुलस्य यथा चर्म यथा ताम्रस्य कालिमा ।।
नश्यन्ति क्रियया वीर पुरुषस्य तथा मलः ॥ ९२ ॥
५ जीवस्य तण्डुलस्यैव सहजोऽपि मलो महान् ॥
नश्यत्येव न संदेहस्तस्मात्कर्मोदितं कुरु ॥ ९३ ॥..
Ibid, पातालखण्ड, अ. .९९.

६ सेवाधर्मो हि गहनः योगिनामपि दुष्करः ॥ ३९ ॥
विनशंत्युपकाराणि तस्मात्सेवा सुदुष्करा ॥



१०
२११
१२
*#
१३
१४
स्वामी सर्पश्च वन्हिश्च तप्तभावं व्रजन्ति हि ॥ ४१ ॥ *
यथा पुण्यसमं मित्रं नास्ति शास्त्रसमो गुरुः || ६७ ॥
Ibid, क्रियाखण्ड, अ. २२.
तथापि विभवे धंयं निर्भयत्वं च तत्परम् ॥
उपायश्चेति चत्त्वारः प्रशस्या दीर्घदेशिभिः ॥ १७७ ॥ Ibid, अ. ५.
परोपकारः कर्तव्यः प्राणैरपि धनैरपि ॥ २३९ ।।
Ibid, उत्तरखण्ड, अ. १२८.
अकिञ्चनत्वं राज्यं च तुलया समतोलयन् ॥
अकिञ्चनत्वमधिकं राज्यादपि जितात्मनः ॥ २४९ ॥
आत्मा वै यमितो येन स यमस्तु विशिष्यते ॥ ३२४ ॥
दण्डो रक्षति भूतानि दण्डः पालयते प्रजाः ॥
निवारयति पापिष्ठान्दण्डो दुर्जय एव वा ॥ ३२७ ॥
श्रुतस्य हि दमो मूलं दमो धर्मः सनातनः ॥ ३३७ ॥
दमेन होनं न पुनन्ति वेदा
यद्यप्यधीताः सह षड्भिरङ्गः ॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP