English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 296

Puran Kavya Stotra Sudha - Page 296

Puran Kavya Stotra Sudha - Page 296


परिशिष्टा नि– अवशिष्ट सुभाषितानि
श्रेयस्कामो भवेद्यस्तु नीतिशास्त्रार्थ कोविदः ॥
साधुत्वं समभावं च खलानां नैव विश्वसेत् ॥४८॥
दुर्जनं प्रणत यान्तं मित्रं कैतवशोलिनम् ||
दुष्टां भार्यां च विश्वस्तो मृत एव न संशयः ॥४९॥
ऐश्वर्यमदमत्तानां क्षुधितानां च कामिनाम् ||
अहंकारविमूढानां विवेको नैव जायते ||१०३||
निधेराधारमात्रेण मही ज्वलति सर्वदा ॥
तदेव मानवा भुक्त्वा ज्वलन्तीति किमद्भुतम् ॥४॥
किमत्र चित्रं सुजनं बाघन्ते यदि दुर्जनाः ॥
मही रुहांश्चानुतटे पातयन्ति नदीरयाः ॥५॥
यत्राश्रोर्यौवनं वापि शारदा वापि तिष्ठति ॥
तत्राश्रीर्वृद्धता नित्यं मूर्खत्वं चापि जायते ॥६॥
अहो कनकमाहात्म्यमाख्यातुं केन शक्यते ॥
नामसाम्यादहो चित्रं धत्तूरोपि मदप्रदः ||७||
भवेद्यदि खलस्य श्रीः सैव लोकविनाशिनी ॥
यथा सखाग्ने: पवनः पनगस्य यथा विषम् ॥ ८॥
अहो धनमदांन्धस्तु पश्यन्नपि न पश्यति ॥
यदि पश्यत्यात्महितं स पश्यति न संशयः ॥ ९॥
माता वा जनको वापि भ्राता वा तनयोऽपि वा ।।
अधर्मं कुरुते यस्तु स एव रिपुरिष्यते ॥ ११५॥
यस्त्वधर्मेषु निरतः सर्वलोकविरोधकृत् ॥
तं रिपुं परमं विद्याच्छास्त्राणामेष निर्णयः ॥१६॥
परोपकार जिरताः क्षमासारा हि साधवः ॥२२॥
दुर्जनेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः ||
न हि संहरते ज्योत्स्नां चन्द्रश्चाण्डालवेश्मनः ॥२३॥
बाध्यमानोऽपि सुजन: सर्वेषां सुखकृद्भवेत् ॥
दबाति परमां तुष्टि भक्ष्यमाणोऽमरैः शशी ॥२४॥
दारितरिछन्न एवापि ह्यामोदेनैव चन्दनः ||
सौरभं कुरुते सर्व तथैव सुजनो जनः ॥१२५॥
२८३

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP