English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 44

Puran Kavya Stotra Sudha - Page 44

Puran Kavya Stotra Sudha - Page 44


व्यवहारचातुर्ययोगः—बृहस्पतिनीतिसारः
५९ ॥
यत्र स्नेहो भयं तत्र स्नेहो दुःखस्य भाजनम् ॥
स्नेहमूलानि दुःखानि तस्मिस्त्यक्ते महत्सुखम् ॥
शरीरमेवायतनं दुःखस्य च सुखस्य च ||
जीवितं च शरीरं च जात्यैव सह जायते ॥ ६० ॥
सर्व परवशं दुःखं सर्वमात्मवशं सुखम् ॥
एतद्विद्यात्समासेन लक्षणं सुखदुःखयोः ॥ ६१ ॥
सुखस्यानन्तरं दु.खं दुःखस्यानन्तरं सुखम् ॥
सुखं दुःखं मनुष्याणां चक्रवत्परिवर्त्तते ॥ ६२ ॥
यद्गतं तदतिक्रान्तं यदि स्यात्तच्च दूरतः ॥
वर्तमानेन वर्तेत न स शोकेन बाधते ॥ ६३ ॥
Ibid, अ. ११३.
अथ चतुर्दशोत्तरशततमोऽध्यायः (११४).
न कश्चित्कस्यचिन्मित्रं न कश्चित्कस्यचिद्रिपुः ||
कारणादेव जायन्ते मित्राणि रिपवस्तथा ॥ १ ॥
शोकत्राणं भयत्राणं प्रोतिविश्वासभाजनम् ||
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ॥ २ ॥
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ||
बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥ ३ ॥
न मातरि न दारेषु न सोदर्ये न चात्मजे ॥
विश्वासस्तादृशः पुंसां यादृजमित्रे स्वभावजे ॥ ४ ॥
यदीच्छेच्छाश्वर्ती प्रीति त्रीन्दोषान्परिवर्जयेत् ॥
द्यूतमर्थप्रयोगञ्च परोक्षे दारदर्शनम् ॥ ५ ॥
मात्रा स्वसा दुहित्रा वा न विविक्तासनो वसेत् ॥
बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ ६ ॥
विपरीतरतिः कामः स्वायत्तेषु न विद्यते ॥
यथोपायो वघो दण्डस्तथैव ह्यनुवर्त्तते ॥ ७ ॥
*
२९

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP