English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 87

Puran Kavya Stotra Sudha - Page 87

Puran Kavya Stotra Sudha - Page 87


पुराणकाव्यस्तोत्रसुधा ।
४२१ विपरीतो यदा कालः पुरुषस्य भवेत्तदा ॥
भूतमैत्रीं प्रकुर्वन्ति सर्वकार्यार्थसिद्धये ॥ ३४ ॥
स्कांद, माहे खं. के. खं., ९
७२
४२२ [ न पुत्रबांधवा दारा न समस्तः सुहृज्जनः ॥
सकटेऽभ्युपगच्छन्ति व्रजन्तमेकगामिनम् ॥ ९४ ॥ ]
४२३ यदेव कर्म कंवल्यं कृतं तेन शुभाशुभम् ॥
तदेव सार्थवत्तस्य भवत्यग्रे तु गच्छतः ॥ ९५ ॥
४२४ निर्धनस्यैव चरतो न भयं विद्यते क्वचित् ॥
घनी भयैर्न मुच्येत धनं तस्मात्त्यजाम्यहम् ॥ ९६ ॥
४२५ लुब्धाः पापानि कुर्वन्ति शुद्धांशा नैव मानवाः ॥
श्रुत्वा धर्मस्य सर्वस्वं श्रुत्वा चैवावधार्य तत् ॥ ९७ ॥
Ibid, आवन्त्यवं. रेवाखं., २८.
४२६ स्वकर्मणोऽनुरूपं हि फलं भुञ्जन्ति जंतवः ॥
शुभेन कर्मणा भूतिर्दुःखं स्यात्पातकेन तु ॥ ३१ ॥
४२७ दृश्यन्ते चाऽभिशापाश्च पूर्वकर्मानुसञ्चिताः ॥
कष्टाः कष्टतरावस्था गताः केचिदनागसः ।। ३५ ।।
४२८ न्हीमन्तो नयसंयुक्ता अन्ये बहुगुणैर्युताः ||
दुर्गमामापदं प्राप्य निजकर्मसमुद्भवम् ॥ ३८ ॥
४२९ न सञ्ञ्ज्वरन्ति ये मर्त्या धर्मनिन्दां न कुर्वते ॥
इदमेव तपो मत्त्वा क्षिपन्ति सुविचेतसः ॥ ३९ ।।
शीतं हुताशादपि दैवयोगा-
सञ्जायते चन्द्रमसोऽपि तापः ॥
परिग्रहात्सौख्यसमुद्भवोऽत्र
भूतोऽभवद्भावि ( वो ? ) न मर्त्यलोके ॥ ५७ ॥
कष्टं वने निवसतोऽत्र सदा नरस्य
४३०
४३१
नो केवलं निजतनुप्रभवं भवेच्च ||
दैवं च पित्र्यमखिलं न विभाति कृत्यं
तस्माद् गृहे निवसतात्महितं प्रचिन्त्यम् ॥ ५४ ॥
lbul, १९८
Ibid, नागरखं., १४७.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP