English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 172

Puran Kavya Stotra Sudha - Page 172

Puran Kavya Stotra Sudha - Page 172


स्तो त्र यो गः –
सुरासुराणामजयो जयाय युगे युगे यत्स्वशरीरमाद्यम् ॥
सृजत्यनादिः परमेश्वरो यस्तं यज्ञमूर्ति प्रणतोऽस्मि नित्यम् ॥ ५२ ॥
क्वचित्तहस्रं शिरसां दधानः क्वचिन्महापर्वततुल्यकायः ॥
क्वचित्स एव त्रसरेणुतुल्यो यस्तं सदा यज्ञनरं नमामि ॥ ५३ ॥
चतुर्मुखो यः सृजते समग्रं रथाङ्गपाणिः प्रतिपालनाय ||
क्षयाय कालानलसन्निभो यस्तं यज्ञमूर्ति प्रणतोऽस्मि नित्यम् ॥ ५४ ॥
संसारचक्रक्रमण क्रियायें य इज्यते सर्वगतः पुराणः ॥
यो योगिनां ध्यानगतोऽप्रमेयस्त यशमूर्ति प्रणतोऽस्मि नित्यम् ॥ ५५ ॥
सम्यमनर्स्थापितवानहं ते यदा सुदृश्यं स्वतनौ तु तत्त्वम् ||
न चान्यदस्तीति मतिः स्थिरा मे यतस्ततो याति विशुद्धभावम् ॥५६॥
इतीरतस्तस्य हुताशनाचिः प्रख्यं तु तेजः पुरतो बभूव ||
तस्मिन्स राजा प्रविवेश बुद्धि कृत्वा लयं प्राप्तवान्यज्ञमूर्ती ॥ ५७ ॥
हरिरुवाच -
ब्रह्मध्यानम्
७. ब्रह्मध्यानम्
( गरुड, पूर्वखण्ड, ४४ )
पूजयित्वा पवित्राद्यैर्ब्रह्म घ्यात्वा हरिर्भवेत् ||
ब्रह्मध्यानं प्रवक्ष्यामि मायायन्त्रप्रमर्दकम् ॥ १ ॥
यच्छेद्वाङ्मनसा प्राज्ञस्त यजेद् ज्ञानमात्मनि ॥
ज्ञान महति संयच्छेद् य इच्छेद् ज्ञानमात्मनि ॥ २ ॥
देहेन्द्रियमनोबुद्धिप्राणाहकारवजितम् ॥
वर्जितं भूततन्मात्रैर्गुणजन्माशनादिभिः || ३ ||
स्वप्रकाशं निराकारं सदानन्दमनादि यत् ॥
नित्यं शुद्धं बुद्धमृद्धं सत्यमानन्दमद्वयम् ॥ ४ ॥
तुरीयमक्षरं बह्म अहमस्मि परं पदम् ॥
अहं ब्रह्मेत्यवस्थानं समाधिरपि गोयते ॥ ५॥
आत्मानं रथिनं विद्धि शरीरं रथमेव तु ॥
इन्द्रियाणि हयानाहुविषयास्तेषु गोचराः ॥ ६ ॥
१५७

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP