English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 175

Puran Kavya Stotra Sudha - Page 175

Puran Kavya Stotra Sudha - Page 175


१६०
पुराणकाव्यस्तोत्रसुधा |
त्वत्सङ्केतस्त्वन्तरा यो निगूढः कालोऽमेयो ध्वस्त संख्या विकल्पः ॥
भावाभावव्यक्तिसंहारहेतुः सोऽनन्तस्त्वं तस्य कर्ता निदानम् ॥ १६ ॥
स्थूल: सर्वानर्थभूतस्ततोऽन्यः सोऽर्थः सूक्ष्मो यो हि तेभ्योऽपि गीतः ॥
स्थूला भावाश्चाऽऽवृतो यश्च तेषां तेभ्यः स्थूलस्त्वं पुराणे प्रणीतः ॥१७॥
भूतं भूतं भूतिमद्भुतभावं भावे भावे भावितं त्वं युनक्षि ॥
युक्तं युक्तं व्यक्तिभावान्निरस्य स्थाने स्थाने व्यक्तिवृत्ति करोषि ॥
इत्थं देवो भक्तिभाजां शरण्यस्त्राता गोता भावितोऽनन्तमूर्तिः ॥१८॥
हरिरुवाच -
१०. विष्णुकत्रचम्
( गरुड, पूर्वखण्ड, अ. १९४)
सर्वव्याधिहरं वक्ष्ये वैष्णवं कवचं शुभम् ॥
येन रक्षा कृता शम्भोर्नात्र कार्या विचारणा ॥ १ ॥
प्रणम्य देवमीशानमजं नित्यमनामयम् ॥
देवं सर्वेश्वरं विष्णुं सर्वव्यापिनमव्ययम् ॥ २ ॥
बघ्नाम्यहं प्रतीकारं नमस्कृत्य जनार्दनम् ||
अमोघाप्रतिमं सर्वं सर्वदुःखनिवारणम् || ३ ||
विष्णुर्भामग्रतः पातु कृष्णो रक्षतु पृष्ठतः ॥
हरिमें रक्षतु शिरो हृदयश्च जनार्दनः ॥ ४ ॥
मनो मम हृषीकेशो जिव्हां रक्षतु केशवः ||
पातु नेत्रे वासुदेवः श्रोत्रे सकर्षगो विभुः ॥ ५॥
प्रद्युम्नः पातु मे घ्राणमनिरुद्धस्तु चर्म च ||
वनमाली गलस्यान्तं श्रीवत्सो रक्षतामधः ॥ ६ ॥
पाश्र्वं रक्षतु मे चक्रं वामं दैत्यनिवारणम् ॥
दक्षिणं तु गदादेवी सर्वासुरनिवारिणी ॥ ७ ॥
उदरं मुषलं पातु पृष्ठं मे पातु लाङगलम् ॥
ऊर्ध्वं रक्षतु मे शाङ्गं जबघे रक्षतु नन्दकः ॥ ८॥
पाणों रक्षतु शङखश्च पद्मं मे चरणावुभौ ॥
सर्वकार्यार्थसिद्धयर्थं पातु मां गरुडः सदा ॥ ९॥

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP