का व्य यो गः २
- सुरनदीवर्णनम्
अग्न्यां समुद्रमहिषों महर्षिगण मेविताम् ॥
सर्वलोकस्य चौत्सुक्यकारिणों सुमनोहराम् ॥ ८ ॥
हितां सर्वस्य लोकस्य नाकमार्गप्रदायिकाम् ॥
गोकुलाकुलतीरान्तां रम्यां शैवालवजिताम् ॥ ९ ॥
हंससारससंघुष्टां जलजैरुपशोभिताम् ॥
आवर्तनाभिगम्भीरां द्वीपोरुजघनस्थलीम् ॥ १० ॥
नीलनी रजनेत्राभामुत्फुल्लकमलाननाम् ॥
हिमाभफेनवसनां चक्रवाकाधरां शुभाम् ||
बलाकापंक्तिदशनां चलन्मत्स्यावलिभ्रुवम् ।। ११ ।।
त्वजलोडू तमातङ्गरम्यकुम्भपयोधराम् ॥
हंसनू पुरसंघुष्टां मृणालवलयावलीम् ।। १२ ।।
तस्यां रूपमदोन्मत्ता गन्धर्वानुगताः सदा ||
मध्याह्नसमये राजकीडन्त्यप्सरसां गणाः ॥ १३ ॥
तामप्सरोविनिर्मुक्तं वहन्तीं कुङ्कुमं शुभम् ॥
स्वतीसंभूतनानावर्णसुगन्धिनोम् ॥ १४ ॥
तरङ्गव्रातसंक्रान्तसूर्यमण्डलदुर्दृशम् ।।
सुरेभजनिताघात विकूलद्वयभूषिताम् ।। १५ ।।
शक्रेभगण्डसलिलैर्देवस्त्रीकुचचन्दनैः ||
संयुतं सलिलं तस्याः षट्पदैरुपसेव्यते ॥ १६ ॥
तस्यास्तीरभवा वृक्षाः सुगन्धकुसुमाञ्चिताः ॥
तथा उपकृष्टसंभ्रान्त भ्रमरस्तनिताकुलाः ॥ १७ ॥
यस्यास्तीरे रतिं यान्ति सदा कामवशा मृगाः ॥
तपोवनाश्च ऋषयस्तथा देवाः सहाप्सराः ॥ १८ ॥
लभन्ते यत्र पूताङगा देवेभ्यः प्रतिमानिताः ॥
स्त्रियश्च नाकबहुलाः पद्येन्दुप्रतिमाननाः ॥ १९ ॥
या बिभति सदा तोयं देवसघैरपीडितम् ||
पुलिन्दैर्नृपसङ्घैश्च व्याघ्रवृन्दैरपीडितम् ॥ २० ॥
सतामरसपानीयां सतारगगनामलाम् ॥
स तां पश्यन्ययौ राजा सतामीप्सितकामदाम् ॥ २१ ॥ .
१२७