English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 22

Puran Kavya Stotra Sudha - Page 22

Puran Kavya Stotra Sudha - Page 22


व्यवहारचातुर्ययोगः- शौनकीयनीतिसारः
पिता रक्षति कौमारे भर्ता रक्षति यौवने ॥
पुत्रस्तु स्थविरे काले न स्त्री स्वातन्त्र्यमर्हति ॥६३॥
त्यजेद्वन्ध्यामष्टमेऽब्दे नवमे तु मृतप्रजाम् ||
एकादशे स्त्रीजननीं सद्यश्चाप्रियवादिनीम् ||६४॥
अनथित्वान्मनुष्याणां भिया परिजनस्य च ||
अर्थादपेतमर्यादास्त्रयस्तिष्ठन्ति भर्तॄषु ॥६५॥
अश्वं श्रान्तं गजं मत्तं गावः प्रथमसूतिकाः ॥
अनूदके च मण्डूकान्प्राज्ञो दूरेण वर्जयेत् ॥६६॥
अर्थातुराणां न सुहृन्न बन्धुः
कामातुराणां न भयं न लज्जा ||
चिन्तातुराणां न सुखं न निद्रा
क्षुधातुराणां न बलं न तेजः ॥६७॥
कुतो निद्रा दरिद्रस्य परप्रेष्यवरस्य च ||
परनारीप्रसक्तस्य परद्रव्यहरस्य च ||६८||
सुखं स्वपित्यनृणवान्व्याधिमुक्तश्च यो नरः ||
सावकाशस्तु वै भुक्ते यस्तु दारैर्न सङ्गतः १ ॥६९॥
• अम्भसः परिमाणेन उन्नतं कमलं भवेत् ||
स्वस्वामिना बलवता भृत्यो भवति गवितः ॥७०॥
स्थानस्थितस्य पद्मस्य मित्रे वरुणभास्करौ ॥
स्थानच्युतस्य तस्यैव क्लेदशोषणकारकौ ॥७१॥
ये पदस्थस्य मित्राणि ते तस्य रिपुतां गताः ||
भानोः पद्मे जले प्रीतिः स्थलोद्धरणशोषणः ॥७२॥
स्थानस्थितानि पूज्यन्ते पूज्यन्ते च पदे स्थिताः ॥
स्थानभ्रष्टा न पूज्यन्ते केशा दन्ता नखा नराः ॥७३॥
आचार: कुलमाख्याति देशमाख्याति भाषितम् ॥
सम्भ्रमः स्नेहमाख्याति वपुराख्याति भोजनम् ॥७४॥
१. 'नं शङ्कितः' इ.पा.

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP