पुराणकाव्यस्तोत्रसुधा ।
४९६ मम
पूर्ववंशीयः पिता ते च पितुर्मम ||
सदा स्नेहपरश्चासीत्त्वं च स्नेहविवर्जितः ॥ ३१ ॥
४९७ एवं ब्रुवन्ति लोकेऽत्र घनिनां पुरतः स्थिताः ॥
कुलीना अपि पपानां दृश्यन्ते धनलिप्सया ||
दरिद्रस्य मनुष्यस्य क्षितौ राज्यं प्रकुर्वतः ॥ ३२ ॥
४९८ प्रशोष: केवलं भावो हृदयस्य महामुने ||
द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषणौ ||
यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥ ३३ ॥
४९९ श्मशानमपि सेवन्ते धनलुब्धा निशागमे ||
जनेतारमपि त्यक्त्वा नित्यं यान्ति सुदूरतः ॥ ३४ ॥
५०० सुमूर्खोऽपि भवेद्विद्वानकुलीनोऽपि सत्कुलः ||
यस्य वित्तं भवेद्धर्म्ये विपरीतमतोऽन्यथा ॥ ३५ ।।
५०१ राज्यं हि बहु मन्यन्ते नरा विषयलोलुपाः ॥
मनीषिणस्तु पश्यन्ति तदेव नरकोपमम् ॥ ६९ ॥
७८
Ibid, २०९.
Ibid, प्र. क्षे. मा., ३३८.
.
११. कालमहिमा
५०२ त्रयः कालकृताः पाशाः शक्यन्ते नातिर्वार्ततुम् ॥
विवाहो जन्ममरणं यदा यत्र तु येन च ॥ ४० ॥
५०३ यथा जलघरा व्योम्नि भ्राम्यन्ते मातरिश्वना ||
तथेदं कर्मयुक्तेन कालेन भ्राम्यते जगत ॥ ४१ ॥ पद्म, भूमिखं., ८१.
५०४ कालस्यैव वशे सर्वं दुर्गं दुर्गतरं च यत् ॥
काले क्रुद्धे कथं कालात्त्राणं नोऽद्य भविष्यति ॥ ५ ॥
५०५ लोकेषु त्रिषु यत्किञ्चिद्वलं वै सर्वजन्तुषु ||
कालस्य तद्वशं सर्वमिति पैतामहो विधिः ॥ ६॥
५०६ अस्मिन्कः प्रभवेद्योगो हासन्धार्थेऽमितात्मनि ॥
लङघने कः समर्थ: स्यावृते देवं महेश्वरम् ॥ ७॥
मत्स्य, १३६.