पुराणकाव्यस्तोसुधा ।
यत्किञ्चित्कुरुते कर्म शुभं वा यदि वाऽशुभम् ॥
तेन स्म वर्द्धते राजा सूक्ष्मतो मृत्यकार्यतः ॥ २४ ॥
तस्माद्भ मीश्वरः प्राज्ञं धर्मकामार्थसाधने ॥
नियोजयेद्धि सततं गोब्राह्मणहिताय वै ॥ २५ ॥
Ibid, अ. ११२.
अथ त्रयोदशोत्तरशततमोऽध्यायः (११३).
गुणवन्तं नियुञ्जीत गुणहीनं विवर्जयेत् ||
पण्डितस्य गुणाः सर्वे मूर्खे दोषाश्च केवलाः ॥ १
सद्भिरासीत सततं सद्भिः कुर्वीत सङ्गमम् ॥
सद्भिविवाद मंत्रीञ्च नासद्भिः किञ्चिदाचरेत् ॥ २ ॥
पण्डितैश्च विनीतैश्च धर्मज्ञैः सत्यवादिभिः ॥
बन्धनस्थोऽपि तिष्ठेच्च न तु राज्यं खलैः सह ॥ ३ ॥
सावशेषाणि कार्याणि कुर्वन्नयँश्च युज्यते ||
तस्मात्सर्वाणि कार्याणि सावशेषाणि कारयेत् ॥ ४ ॥
मधुहेव दुहेत्सारं कुसुमञ्च न घातयेत् ॥
वत्सापेक्षी दुहेत्क्षीरं भूमि गां चैव पार्थिवः ॥ ५ ॥
यथाक्रमेण पुष्पेभ्यश्चिनुते मधु षट्पदः ||
तथा वित्तमुपादाय राजा कुर्वीत सञ्चयम् ॥ ६ ॥
वल्मीकं मधुजालञ्च शुक्लपक्षे तु चन्द्रमाः ॥
राजद्रव्यं च र्भक्ष्यं च स्तोकं स्तोकं प्रवर्द्धते ॥ ७ ॥
अजितस्य क्षयं दृष्ट्वा संप्रदत्तस्य सञ्चयम् ॥
अवन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मसु ॥ ८ ॥
वनेऽपि दोषाः प्रभवन्ति रागिणां
गृहेऽपि पञ्चेन्द्रियनिग्रहस्तपः ॥
अकुत्सिते कर्मणि यः प्रवर्त्तते
निवृत्तरागस्य गृहं तपोवनम् ॥ ९ ॥
सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ॥
मृजया रक्ष्यते पात्रं कुलं शोलेन रक्ष्यते ॥ १० ॥