स्तोत्र योगः - चण्डिकास्तोत्रम्
दृष्ट्वा तु देवि कुपितं भृकुटोकरालमुद्यच्छशांकसदृशच्छवि यन सद्यः ॥
प्राणान्सुमोच महिषस्तदतीव चित्रं कैर्जीव्यते हि कुपितान्तकदर्शनेन ||१३||
देवि प्रसीव परमा भवती भवाय सद्यो विनाशयसि कोपवती कुलानि ||
विज्ञातमेतदघुनैव यदम्तमेतन्नीतं बलं सुविपुलं महिषासुरस्य ॥१४॥
ते संमता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति बन्धुवर्गः ॥
धन्यास्त एव निभृतात्मजभृत्यदारा येषां सदाभ्यदयदा भवती प्रसन्ना ||१४||
धर्म्माणि देवि सकलानि सदैव कर्माण्यत्यादृतः प्रतिदिनं सुकृती करोति ॥
स्वर्गं प्रयाति च ततो भवतीप्रसादाल्लोकत्रयेऽपि फलदा ननु देवि तेन ॥ १६॥
दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थं: स्मृता मतिमतीव शुभां ददासि ॥
दारिद्रयदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ॥१७॥
एभिर्हत जगदुपैति सुखं तथैते कुर्वन्तु नाम नरकाय चिराय पापम् ॥
संग्राममृत्युमभिगम्य दिवं प्रयान्तु मत्त्वेति नूनमहितान्विनिहंसि देवि ||१८||
दृष्ट्यैव कि न भवतो प्रकरोति भस्म सर्वामुरारिषु यत्प्रहिणोषि शस्त्रम् ||
लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता इत्यं मतिर्भवति तेष्वहितेषु साध्वी ||
खड्गप्रभानिक र विस्फुरणैस्तथोग्रैः शूलाग्रकान्तिनिवहेन वृशोऽसुराणाम् ||
यन्नागता विलयमंशुमदिन्दुखण्डयोग्याननं तव विलोकयतां तदेतत् ॥२०॥
दुर्वृत्तवृत्तशमनं तव देवि शीलं रूपं तथैतदविचिन्त्यमतुल्यमन्येः ॥
वोयं च हन्तु हृतदेवपराक्रमाणां वैरिष्वपि प्रकटितेव दया त्वयेत्यम् ||२१||
केनोपमा भवतु तेऽस्य पराक्रमस्य रूपं च शत्रुभयकार्यतिहारि कुत्र ||
चित्ते कृपा समरनिष्ठुरता च दृष्टा त्वय्येव देवि वरदे भुवनत्रयेऽपि ॥२२॥
त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्द्धनि तेऽपि हत्वा ||
नीता दिवं रिपुगणा भयमप्यपास्तमस्माकमुन्मदसुरारिभवं नमस्ते ||२३||
शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके ॥
घण्टास्वनेन नः पाहि चापज्यनिःस्वनेन च ||२४||
प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ॥
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥२५॥
सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते ||
यानि चात्यन्तधोराणि तं रक्षात्मांस्तथा भुवम् ॥२६॥
२२७