English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 95

Puran Kavya Stotra Sudha - Page 95

Puran Kavya Stotra Sudha - Page 95


पुराणकाव्यस्तोत्रसुधा ।
५१८ तद्राजेन्द्र यथा स्नेहः स्वस्वकात्मनि देहिनाम् ॥
न तथा ममताल म्बिपुत्रवित्तगृहादिषु ॥ ५१ ॥
५१९ देहात्मवादिनां पुंसामपि राजन्यसत्तम ॥
यथा देहः प्रियतमस्तथा न ह्यनु ये च तम् ॥ ५२ ॥
८०
आत्मगुण (२) उद्यमः
५२० विपद्यपि च प्राज्ञैर्न संत्याज्य: क्वचिदुद्यमः ॥
क्व च चञ्चपुटस्तस्य क्व च तत्पादपीडनम् ॥ ६६ ॥
५२१ क्व च द्वयोस्तथाभूतं दूरे मोक्षणमद्भतम् ॥
दुर्बलेऽप्युद्यम: श्रेयानिति शास्त्रेषु गीयते || ६७ ॥
५२२ तस्माद्भाग्यानुसारेण फलत्येव सदोद्यमः ॥
प्रशंसन्त्युद्यमं चातो विपद्यपि मनीषिणः ॥ ६८ ॥
भागवत, १०, १४.
स्कान्द, आवन्त्यखं, च. मा., ४५.
आत्मगुण (३) धर्मपालनम्
५२३ घर्मश्चार्यश्च कामश्च मोक्षश्चंतच्चतुष्टयम् ॥
यथोक्तं सफलं ज्ञेयं विपरीतं तु निष्फलम् ॥ २॥
पद्म, उत्तरखं., १२८.
५२४ घृष्यमाण इवाङ्गारो निर्मलत्वं न गच्छति ॥
स्त्रोतांसि यस्य सततं प्रवहन्ति गिरेरिव (नरस्य ) || ७३ ॥
५२५ धर्मवाक्यं न च स्त्रीषु न विवाहे तथा रिपौ ॥
Ibid, भूमिखं., ६६.
ब्रह्म, १२०.
५२६ धर्मव्यतिक्रमो ह्यस्य समाजस्य ध्रुवं भवेत् ॥
यत्राधर्मः समुत्तिष्ठेन्न स्थेयं तत्र कहिचित् ॥ ९ ॥ भागवत, १०, ४४.
५२७ एक: प्रसूयते जन्तुरेक एव प्रलीयते ||
एको न भुंक्ते सुकृतमेक एव च दुष्कृतम् ॥ २१ ॥ Ibid, १०, ४९.
५२८ नाघर्मश्चरितो राजन्सद्यः फलति गौरिव ॥
शनैरावर्त्य मानस्तु मूलान्यपि निकृन्तति ॥ २ ॥
मत्स्य, २८.
वञ्चने चार्थहानौ च स्वनाशेऽनृतके तथा ॥ ५१ ।।

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP