पुराणकाव्यस्तोत्रसुधा ।
श्वशुरेणाभ्यनुज्ञाता याचनाभङगभीरुणा ||
सावित्र्यपि जगामार्ता सह भर्त्रा महद्वनम् ॥ १९ ॥
चेतसा दूयमानेन गूहमाना महद्भयम् ||
बने पप्रच्छ भर्तारं द्रुमांश्चासदृशांस्तथा ॥ २० ॥
आश्वासयामास स राजपुत्रों क्लान्तां वने पद्मविशालनेत्राम् ॥
संदर्शनेनाथ द्रुमद्विजानां तथा मृगाणां विपिने नृवीरः ॥ २१ ॥ ]
११८
सत्यवानुवाच -
वनेस्मिञ्छाद्वलाकीर्णे सहकारं मनोहरम् ॥
नेत्रघ्राणसुखं पश्य वसन्ते रतिवर्धनम् ॥ १ ॥
वनेऽप्यशोकं दृष्ट्वैनं रागवन्तं सुपुष्पितम् ||
वसन्तो हसतीवायं मामेवाऽऽयतलोचने ॥ २॥
दक्षिणे दक्षिणेनैतां पश्य रम्यां वनस्थलीम् ॥
पुष्पितैः किंशुकैर्युक्तां ज्वलितानलसप्रभः ॥ ३ ॥
सुगन्धिकुसुमामोदो वनराजिविनिर्गतः ॥
करोति वायुर्दाक्षिण्यमावयोः क्लमनाशनम् ॥ ४॥
पश्चिमेन विशालाक्षि कणिकार: सुपुष्पितैः ॥
काञ्चनेन विभात्येषा वनराजी मनोरमा ।। ५ ।।
अतिमुक्तलताजालरुद्ध मार्गा वनस्थली ॥
(मत्स्य, अ. २०८ )
रम्या सा चारुसर्वांगि कुसुमोत्करभूषणा ॥ ६ ॥
मधुमत्तालिझडकारव्याजेन वरवणनि ॥
चापाकृष्टि करोतीव कामः पान्यजिघांसया ॥ ७ ॥
फलास्वादलसद्व क्त्रपुंस्कोकिलविनादिता ||
विभाति चारुतिलका त्वमिवैषा वनस्थली ॥ ८ ॥
कोकिलश्चूतशिखरे मञ्जरीरेणुपिञ्जरः ॥
गदितैर्व्यक्ततां याति कुलीनश्चेष्टितैरिव ॥ ९ ॥
पुष्परेणुविलिप्ताङगीं प्रियामनुसरन्वने ॥
कुसुमं कुसुमं याति कूजन्कामी शिलीमुखः ॥ १० ॥