व्यवहारचातुर्ययोगः– गोपींचित्तक्षोभः
दैत्यायित्वा जहारान्यामेका कृष्णार्भभावनाम् ||
रिङ्गयामास काऽप्यंघ्री कर्षन्ती घोषनिःस्वनैः ॥ १६ ॥
कृष्णरामायिते द्वे तु गोपायन्त्यश्च काश्चन ॥
वत्सायन्तीं हन्ति चान्या तत्रैका तु बकायतीम् ॥ १७ ॥
आहूय दूरगा यद्वत् कृष्णस्तमनुकुर्वतीम् ॥
वेणुं क्वणन्तों क्रीडन्तीमन्या शंसन्ति साध्विति ॥ १८ ॥
कस्यांचित् स्वभुजं न्यस्य चलन्त्याहापरा ननु ॥
कृष्णोऽहं पश्यत गति ललितामिति तन्मनाः ॥ १९ ॥
मा भैष्ट वातवर्षाभ्यां तत्त्राणं विहितं मया ॥
इत्युक्त्वैकेन हस्तेन यतन्त्युन्निदघेऽम्बरम् ॥ २० ॥
आरुह्येका पदाऽऽक्रम्य शिरस्याहापरां नृप ॥
दुष्टाहे गच्छ जातोऽहं खलानां नमु दण्डधृक् ॥ २१ ॥
तत्रैकोवाच हे गोपा दावाग्नि पश्यतोल्बणम् ॥
चक्षूंष्या श्वपिदध्वं वो विधास्ये क्षेममञ्जसा ॥ २२ ॥
बद्धान्यया सजा काचित्तन्वी तत्र उलूखले ||
भोता सुदृक् पिधायास्यं भेजे भोतिविडम्बनम् ॥ २३ ॥
एवं कृष्णं पृच्छमाना वृन्दावनलतास्तरून् ॥
व्यचक्षत वनोद्देशे पदानि परमात्मनः ॥ २४ ॥
पदानि व्यक्तमेतानि नन्दसूनोर्महात्मनः ॥
लक्ष्यन्ते हि ध्वजाम्भोजवज्ञाङकुशयवादिभिः ॥ २५ ॥
तैस्तैः पदैस्तत्पदवीमन्विच्छन्त्योऽप्रतोऽबलाः ॥
वध्वाः पदैः सुपुक्तानि विलोक्यार्ता: समब्रुवन् ॥ २६ ॥
कस्याः पदानि चैतानि याताया नन्दसूनुना ॥
अंतन्यस्तप्रकोष्ठाया: करेणोः करिणा यथा ॥ २७ ॥
अनयाssराधितो नूनं भगवान्हरिरीश्वरः ||
यन्नो विहाय गोविन्दः प्रीतो यामनयद्रहः ॥ २८ ॥
धन्या अहो अमो आल्यो गोविन्दांच्यन्जरेणवः ॥
यान् ब्रह्मेशो रमा देवी दधुर्मूर्ध्यधनुत्तये ॥ २९ ॥
१०३