English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 199

Puran Kavya Stotra Sudha - Page 199

Puran Kavya Stotra Sudha - Page 199


पुराणकाव्यस्तोत्रसुधा।
जयेशं नरसिंहं च रूपधारं कुरुध्वजम् ॥
कामपालमखण्डं च नमस्ये ब्राह्मणप्रियम् ॥ ४॥
अजितं विश्वकर्माणं पुण्डरीकं द्विजप्रियम् ॥
हरि शम्भुं नमस्ये च ब्रह्माणं सप्रजापतिम् ॥ ५॥
नमस्ये शूलबाहुं च देवं चक्रधरं तथा ॥
शिवं विष्णुं सुवर्णाक्षं गोर्पात पीतत्राससम् ॥ ६ ॥
नमस्ये च गदापाणि नमस्ये च कुशेशयम् ॥
अर्धनारीश्वरं देवं नमस्ये पापनाशनम् ॥ ७ ॥
गोपालं च सर्वकुण्ठं नमस्ये चापधारिणम् ॥
नमस्ये विष्णुरूपं च ज्येष्ठेशं पञ्चमं तथा ॥ ८ ॥
उपशान्तं नमस्येऽहं मार्कण्डेयं सजम्बुकम् ॥
नमस्ये पद्मकिरणं नमस्ये वडवामुखम् ॥ ९ ॥
कार्तिकेयं नमस्येऽहं बाह्लिकं शंखिनं तथा ॥
नमस्ये पद्मकिरणं नमस्ये च कुशेशयम् ॥ १० ॥
नमस्ये स्थाणुमनघं नमस्ये वनमालिनम् ॥
नमस्ये लागलीशं च नमस्येऽहं श्रियःपतिम् ॥ ११ ॥
नमस्ये च त्रिणयनं नमस्ये हव्यवाहनम् ॥
नमस्ये च त्रिसौपणं नमस्ये घरणीघरम् ॥ १२ ॥
त्रिणाचिकेतं ब्रह्माणं नमस्ये शशिभूषणम् ॥
कपदनं नमस्ये च सर्वामयविनाशनम् ॥ १३ ॥
नमस्ये शशिनं सूर्य ध्रुवं रुद्रं महौजसम् ॥
पद्मनाभं हिरण्याक्षं नमस्ये स्कन्दमव्ययम् ॥ १४ ॥
नमस्येऽहं भीमहंसौ नमस्ये हाटकेश्वरम् ॥
सदा हंसं नमस्ये च नमस्ये घ्राणतर्पणम् ॥ १५ ॥
नमस्ये रुक्मकवचं महायोगिनमीश्वरम् ॥
नमस्ये श्रीनिवासं च नमस्ये पुरुषोत्तमम् ॥ १६ ॥
नमस्ये च चतुर्बाहुं नमस्ये च सुधाघिपम् ॥
वनस्पति मधुपति नमस्ये मनुमव्ययम् ॥ १७ ॥
१८४

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP