English Index|Projects|Scanned Books|Puran Kavya Stotra Sudha|
Page 290

Puran Kavya Stotra Sudha - Page 290

Puran Kavya Stotra Sudha - Page 290


परमार्थ यो गः- वासुदेवमाहात्म्यम्
भूतानि भूतैः परिदुर्बलानि वृद्धि समायाति यथेह पुसः ॥
अश्नाम्बुपानादिभिरेव कस्य न तेऽस्ति वृद्धिर्न च तेऽस्ति हानिः ॥ १४ ॥
त्वं कञ्चुके शीर्यमाणे निजेस्मिस्तस्मिन्स्वदेहे मूढतां मा व्रजेथाः ॥
शुभाशुभ: कर्मभिर्देहमेतन्मदादिमूढैः कचुकस्ते पिनद्धः ॥१५॥
तातेति किचित्तनयेति किचिदम्बेति किचियितेति किचित ||
ममेति किचिन्न ममेति किंचिद्भातं संघ बहुधा मालपेथाः ॥१६॥
दुःखानि दुःखोपगमाय भोगान्सुखाय जानाति विमूढचेताः ॥
तान्येव दुःखानि पुनः सुखानि जानाति विद्वानविमूढचेताः ॥१७॥
हासोऽस्थिसंदर्शनमक्षियुग्ममत्युज्ज्वलं यत्कलुषं वसायाः ||
कुचादिपीनं पिशितं घनं तत्स्थानं रतेः कि नरको न योषित् ॥१८॥
यानं क्षितौ यानगतश्च देहो देहेऽपि चान्यः पुरुषो निविष्ट: ॥
ममत्वमुर्व्यां न तथा यथा स्वे देहेतिमात्रं च विमूढतैषा ॥१९॥
त्यज धर्ममधर्मं च उभे सत्यानृते त्यज ||
उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज ॥२०॥
वर्धमानं सुतं सा तु राजपत्नी दिने दिने ||
तमुल्लाषादिना बोधमनयन्निर्मलात्मकम् ॥२१॥
यथा यथा बलं लेभे यथा लेभ मति पितः ॥
तथा तथात्मबोधं च सोऽवापन्मातृभाषितैः ॥ २२॥
७. वासुदेवमाहात्म्यम्
( भागवत, १२, १२)
संकोत्यमानो भगवाननन्तः श्रुतानुभावो व्यसनं हि पुंसाम् ॥
प्रविश्य चित्तं विधुनोत्यशेषं यथा तमोऽर्कोऽभ्रमिवातिवातः ॥४७॥
मृषा गिरस्ता ह्यसतीरसत्कथा न कथ्यते यद् भगवानघोक्षजः ॥
तदेव सत्यं तदु हैव मडगलं तदेव पुण्यं भगवद्गुणोदयम् ॥४८॥
तदेव रम्यं रुचिरं नवं नवं तदेव शश्वन्मनसो महोत्सवम् ||
तदेव शोकाणंवशोषणं नृणां यदुत्तमश्लोकयशोऽनुगीयते ॥४९॥
न तद् वचश्चित्रपदं हरेर्यशो जगत्पवित्रं प्रगुणीत कहिचित् ||
तद् ध्वाङक्षतीर्थं न तु हंससेवितं यत्राच्युतस्तत्र हि साघवोऽमलाः ॥५०॥
२७७

Note: Text on this page was transliterated using variery of software techniques. While we perfect artifical intelligence used, the texts may not be accurate. Learn more.
Last Updated : September 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP