संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
सङ्ग्रामविजयपूजा

अध्याय १४८ - सङ्ग्रामविजयपूजा

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच ।
ओं डे ख ख्यां सूर्याय सङ्ग्रामविजयाय नमः ।
ह्रां ह्रों ह्रूं ह्रें ह्रौं ह्रः षडङ्गानि तु सूर्यस्य सङ्ग्रामे जयदस्य हि ॥१॥
ओं हं खं खशोक्लाय स्वाहा । स्पूं ह्रूं हुं क्रूं ओं ह्रों क्रें
प्रभूतं विमलं सारसाराध्यं परमं मुखं ॥१॥
धर्मज्ञानञ्च वैराग्यमैश्वर्याद्यष्टकं यजेत् ॥२॥
अनन्तासनं सिंहासनं पद्मासनमतः परं ॥२॥
कर्णिकाकेशरण्येव सूर्यसोमाग्निमण्डलं ॥३॥
दीप्ता सूक्ष्मा(१) जया भद्रा विभूतिर्विमला तथा ॥३॥
अमोघा विद्युता पूज्या नवमी सर्वतोमुखी ॥४॥
सत्त्वं रजस्तमश्चैव प्रकृतिं पुरुषं तथा ॥४॥
आत्मानञ्चान्तरात्मानं परमात्मानमर्चयेत् ॥५॥
सर्वे बिन्दुसमायुक्ता मायानिलसमन्विताः ॥५॥
उषा प्रभा च सन्ध्या च साया माया बलान्विता ॥६॥
बिन्दुविष्णुसमायुक्ता(२) द्वारपालास्तथाष्टकं ॥६॥
सूर्यं चण्डं प्रचण्डञ्च पूजयेद्गन्धकादिभिः ॥७॥
पूजया जपहोमाद्यैर्युद्धादौ विजयो भवेत् ॥७॥

इत्याग्नेये महापुराणे युद्धजयार्णवे सङ्ग्रामविजयपूजा नाम अष्टचत्वारिंशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP