संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
द्वारप्रतिष्ठा

अध्याय १०० - द्वारप्रतिष्ठा

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
द्वाराश्रितप्रतिष्ठाया वक्ष्यामि विधिमप्यथ ॥१॥
द्वाराङ्गानि कषायाद्यैः संस्कृत्य शयने न्यसेत् ॥१॥
मूलमध्याग्रभागेषु त्रयमात्मादिसेश्वरं ॥२॥
विन्यस्य सन्निवेश्याथ(१) हुत्वा जप्त्वात्र रूपतः(२) ॥२॥
द्वारादथो यजेद्वास्तुन्तत्रैवानन्तमन्त्रितः ॥३॥
रत्नादिपञ्चकं न्यस्य शान्तिहोमं विधाय च ॥३॥
यवसिद्धार्थकाक्रान्ता ऋद्धिवृद्धिमहातिलाः ॥४॥
गोमृत्सर्षपरागेन्द्रमोहनीलक्षणामृताः ॥४॥
रोचना रुग्वचो दूर्वा प्रासादधश्च पोटलीं ॥५॥
प्रकृत्योदुम्बरे बद्ध्वा रक्षार्थं प्रणवेन तु ॥५॥
द्वारमुत्तरतः किञ्चिदाश्रितं सन्निवेशयेत् ॥६॥
आत्मतत्त्वमधो न्यस्य विद्यातत्त्वञ्च शाखयोः ॥६॥
शिवमकाशदेशे च व्यापकं सर्वमङ्गले(३) ॥७॥
ततो महेशनाथं च विन्यसेन्मूलमन्त्रतः ॥७॥

इत्याग्नेये महापुराणे द्वारप्रतिष्ठा नाम शततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP