संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
नक्षत्रचक्रं

अध्याय १३६ - नक्षत्रचक्रं

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


ईश्वर उवाच
अथ चक्रं प्रवक्ष्यामि यात्रादौ च फलप्रदम् ॥१॥
अश्विन्यादौ लिखेच्चक्रं त्रिनाडीपरिभूषितं ॥१॥
अश्विन्यार्द्रादिभिः पूर्वा ततश्चोत्तरफल्गुनी ॥२॥
हस्ता ज्येष्ठा तथा मूलं वारुणं चाप्यजैकपात् ॥२॥
टिप्पणी
१ मुष्टिमुद्गरसंयुक्तौ इति ज.. । ऋष्टिमुद्गरयुक्तौ चेति ञ..
२ अभयस्वस्तिकान्वितौ इति ख.. , ग.. , ङ.. , छ.. , झ.. च । अभयस्तम्भिकाश्वितौ इति ज..
नाडीयं प्रथमा चान्या याम्यं मृगशिरस्तथा ॥३॥
पुष्यं भाग्यन्तथा चित्रा मैत्रञ्चाप्यं च वासवं ॥३॥
अहिर्व्रध्रं तृतीयाथ कृत्तिका रोहिणी ह्यहिः ॥४॥
चित्रा स्वाती विशाखा च श्रवणा रेवती च भं ॥४॥
नाडीत्रितयसंजुष्टग्रहाज्ज्ञेयं शुभाशुभं ॥५॥
चक्रम्फणीश्वरन्तत्तु(१) त्रिनाडीपरिभूषितं ॥५॥
रविभौमार्कराहुस्थमशुभं स्याच्छुभं परं ॥६॥
देशग्रामयुता भ्रातृभार्याद्या एकशः शुभाः ॥६॥
टिप्पणी॥
१ चक्रम्फणीश्वरन्तद्वतिति ग.. , घ.. , ङ.. , झ.. , ञ.. च
अ, भ, कृ, रो, मृ, आ, पु, पु, अ, म, पू, उ, ह, चि, स्वा, वि, अ, ज्ये, मू, पू, उ, अ, ध, श, पू, उ, रे । अत्र सप्तविंशतिनक्षत्राणि ज्ञेयानि

इत्याग्नेये महापुराणे युद्धजयार्णवे नक्षत्रचक्रं नाम षट्त्रिंशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP