संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
शकुनानि

अध्याय २३२ - शकुनानि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


पुष्कर उवाच
विशन्ति येन मार्गेण वायसा बहवः पुरं ॥१॥
तेन मार्गेण रुद्धस्य पुरस्य ग्रहणं भवेत् ॥१॥
सेनायां यदि वासार्थे निविष्टो वायसो रुवन् ॥२॥
वामो भयातुरस्त्रस्तो भयं वदति दुस्तरं(१) ॥२॥
छायाङ्गवाहनोपानच्छत्रवस्त्रादिकुट्टने ॥३॥
मृत्युस्तत्पूजने पूजा तदिष्टकरणे शुभं ॥३॥
प्रोषितागमकृत्काकः कुर्वन् द्वारि गतागतं ॥४॥
रक्तं दग्धं गृहे द्रव्यं क्षिपन्वह्निवेदकः ॥४॥
न्यसेद्रक्तं पुरस्ताच्च निवेदयति बन्धनं ॥५॥
पीतं द्रव्यं तथा रुक्म रूप्यमेव तु भार्गव ॥५॥
यच्चैवोपनयेद्द्रव्यं तस्य लब्धिं विनिर्दिशेत् ॥६॥
द्रव्यं वापनयेद्यत्तु तस्य हानिं विनिर्दिशेत् ॥६॥
पुरतो धनलब्धिः स्यादाममांसस्य छर्दने ॥७॥
भूलब्धिः स्यान्मृदः क्षेपे राज्यं रत्नार्पणे महत् ॥७॥
यातुः काकोऽनुकूलस्तु क्षेमः कर्मक्षमो भवेत् ॥८॥
न त्वर्थसाधको ज्ञेयः प्रतिकूलो भयावहः ॥८॥
सम्मुखेऽभ्येति विरुवन् यात्राघातकरो भवेत् ॥९॥
वामः काकः स्मृतो धन्यो दक्षिणोऽर्थविनाशकृत्(२) ॥९॥
वामोऽनुलोमगः श्रेष्ठो मध्यमो दक्षिणः स्मृतः ॥१०॥
प्रतिलोमगतिर्वामो गमनप्रतिषेधकृत् ॥१०॥
निवेदयति यात्रार्थमभिप्रेतं गृहे गतः(१) ॥११॥
एकाक्षरचरणस्त्वर्कं वीक्षमाणो भयावहः ॥११॥
कोटरे वासमानश्च महानर्थकरो भवेत् ॥१२॥
न शुभस्तूषरे काकः पङ्काङ्कः स तु शस्यते ॥१२॥
अमेध्यपूर्णवदनः काकः सर्वार्थसाधकः(२) ॥१३॥
ज्ञेयाः पतत्रिणोऽन्येऽपि काकवद्भृगुनन्दन ॥१३॥
स्कन्धावारापसव्यस्थाः श्वानो विप्रविनाशकाः ॥१४॥
इन्द्रस्थाने नरेन्द्रस्य पुरेशस्य तु गोपुरे ॥१४॥
अन्तर्गृहे गृहेशस्य मरणाय भवेद्भषन् ॥१५॥
यस्य जिघ्रति वामाङ्गं तस्य स्यादर्थसिद्धये ॥१५॥
भयाय दक्षिणं चाङ्गं तथा भुजमदक्षिणं ॥१६॥
यात्राघातकरो यातुर्भवेत्प्रतिमुखागतः ॥१६॥
मार्गावरोधको मार्गे चौरान् वदति भार्गव ॥१७॥
अलाभोऽस्थिमुखः पापो रज्जुचीरमुखस्तथा ॥१७॥
सोपानत्कमुखो धन्यो मांसपूर्णमुखोऽपि च ॥१८॥
अमङ्गल्यमुखद्रव्यं केशञ्चैवाशुभं तथा ॥१८॥
अवमूत्र्याग्रतो याति यस्य तस्य भयं भवेत् ॥१९॥
यस्यावमूत्र्य व्रजति शुभं देशन्तथा द्रुमं ॥१९॥
मङ्गलञ्च तथा द्रव्यं तस्य स्यादर्थसिद्धये ॥२०॥
श्ववच्च राम विज्ञेयास्तथा वै जम्बुकादयः ॥२०॥
भयाय स्वामिनि ज्ञेयमनिमित्तं रुतङ्गवां ॥२१॥
निशि चौरभयाय स्याद्विकृतं मृत्यवे तथा ॥२१॥
शिवाय स्वामिनो रात्रौ बलीवर्दो नदन् भवेत् ॥२२॥
उत्सृष्टवृषभो राज्ञो विजयं सम्प्रयच्छति ॥२२॥
अभयं भक्षयन्त्यश्च गावो दत्तास्तथा स्वकाः ॥२३॥
त्यक्तस्नेहाः स्ववत्सेषु गर्भक्षयकरा मताः ॥२३॥
भूमिं पादैर्विनिघ्नन्त्यो दीना भीता भयावहाः ॥४॥
आर्द्राङ्ग्यो हृष्टरोमाश्च शृगलग्नमृदः शुभाः ॥२४॥
महिष्यादिषु चाप्येतत्सर्वं वाच्यं विजानता ॥५॥
आरोहणं तथान्येन सपर्याणस्य(१) वाजिनः ॥२५॥
जलोपवेशनं नेष्टं भूमौ च परिवर्तनं ॥६॥
विपत्करन्तुरङ्गस्य सुप्तं वाप्यनिमित्ततः ॥२६॥
यवमोदकयोर्द्वेषस्त्वकस्माच्च न शस्यते ॥२७॥
वदनाद्रुधिरोत्पत्तिर्वेपनं न च शस्यते ॥२७॥
क्रीडन् वैकः कपोतैश्च सारिकाभिर्मृतिं वदेत् ॥२८॥
साश्रुनेत्रो जिह्वया च पादलेही विनष्टये(२) ॥२८॥
वामपादेन च तथा विलिखंश्च वसुन्धरां ॥९॥
स्वपेद्वा वामपार्श्वेन दिवा वा न शुभप्रदः ॥२९॥
भयाय स्यात्सकृन्मूत्री तथा निद्राविलाननः ॥३०॥
आरोहणं न चेद्दद्यात्प्रतीपं वा गृहं व्रजेत् ॥३०॥
यात्राविघातमाचष्टे वामपार्श्वं तथा स्पृशन् ॥३१॥
हेषमाणः शत्रुयोधं पादस्पर्शी जयावहः ॥३१॥
ग्रामे व्रजति नागश्चेन्मैथुनं देशहा भवेत् ॥३२॥
प्रसूता नागवनिता मत्ता चान्ताय भूपतेः ॥३२॥
आरोहणं न चेद्दद्यात्प्रतीपं वा गृहं व्रजेत् ॥३३॥
मदं वा वारणो जह्याद्राजघातकरो भवेत् ॥३३॥
वामं दक्षिणपादेन पादमाक्रमते शुभः ॥३४॥
दक्षिणञ्च तथा दन्तं परिमार्ष्टि करेण च ॥३४॥
वृषोऽश्वः कुञ्जरो वापि रिपुसैन्यगतोऽशुभः ॥३५॥
खण्डमेघातिवृष्ट्या तु सेना नाशमवाप्नुयात् ॥३५॥
प्रतिकूलग्रहर्क्षात्तु तथा सम्मुखमारुतात्(१) ॥३६॥
यात्राकाले रणे वापि छत्रादिपतनं भयं ॥३६॥
हृष्टा नराश्चानुलोमा ग्रहा वै जयलक्षणं ॥३७॥
काकैर्योधाभिभवनं क्रव्याद्भिर्मण्डलक्षयः ॥३७॥
प्राचीपश्चिमकैशानी शौम्या प्रेष्ठा शुभा च दिक् ॥३८॥

इत्याग्नेये महापुराणे शकुनानि नाम एकत्रिंशदधिकद्विशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 20, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP