संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
गङ्गामाहात्म्यं

अध्याय ११० - गङ्गामाहात्म्यं

भगवान् अग्निदेवांनी या अग्नि पुराणात देवालय निर्माणच्या हेतु विषयांत  में आख्यान दिले आहे.


अग्निरुवाच
गङ्गामाहात्म्यमाख्यास्ये सेव्या सा भुक्तिमुक्तिदा ॥१॥
येषां मध्ये याति गङ्गा ते देशा पावना वराः ॥१॥
गङ्गा तारयते(३) चोभौ वंशौ नित्यं हि सेविता ॥२॥
चान्द्रायणसहस्राच्च गङ्गाम्भःपानमुत्तमं ॥३॥
गङ्गां मासन्तु संसेव्य सर्वयज्ञफलं लभेत् ॥३॥
सकलाघहरी देवी स्वर्गलोकप्रदायिनी ॥४॥
यावदस्थि च गङ्गायां तावत्स्वर्गे स तिष्ठति ॥४॥
अन्धादयस्तु(४) तां सेव्य देवैर्गच्छन्ति तुल्यतां(५) ॥५॥
गङ्गातीर्थसमुद्भूतमृद्धारी सोऽघहार्कवत्(६) ॥५॥
दर्शनात्स्पर्शनात्पानात्तथा गङ्गेतिकीर्तनात् ॥६
पुनाति पुण्यपुरुषान् शतशोथ सहस्रशः ॥६॥
इत्याग्नेये महापुराणे गङ्गामाहात्म्यं नाम दशाधिकशततमोऽध्यायः
- - - - -- - -- - -- - -- - ..
३ गङ्गा पावयते इति झ..
४ पतितादयस्तु इति झ..
५ गच्छन्ति साम्यतामिति घ.. , झ.. च
६ गङ्गातीरसमुद्भूतमृद्धारो सोऽघहार्कवदिति ख.. , ग.. , झ.. च । गङ्गातीरसमुद्भूतमृदं मूर्धा विभर्ति यः । विभर्ति रूपं सोर्कस्य तमोनाशाय केवलमिति ङ..

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP