संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
वारव्रतानि

अध्याय १९५ - वारव्रतानि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
वारव्रतानि वक्ष्यामि भुक्तिमुक्तिप्रदानि हि ॥१॥
करं पुनर्वसुः सूर्ये स्नाने सर्वौषधी शुभा ॥१॥
श्राध्हौ चादित्यवारे तु सप्तजन्मस्वरोगभाक् ॥२॥
सङ्क्रान्तौ सूर्यवारो यः सोऽर्कस्य हृदयः शुभः ॥२॥
कृत्वा हस्ते सूर्यवारं नक्तेनाब्दं स सर्वभाक् ॥३॥
चित्राभसोमवाराणि सप्त कृत्वा सुखी भवेत् ॥३॥
स्वात्यां गृहीत्वा चाङ्गारं सप्तनक्त्यार्तिवर्जितः ॥४॥
विशाखायां बुधं गृह्य सप्तनक्ती ग्रहार्तिनुत् ॥४॥
अनुराधे देवगुरुं सप्तनक्ती ग्रहार्तिनुत्(१) ॥५॥
शुक्रं ज्येष्ठासु सङ्गृह्य सप्तनक्ती ग्रहार्तिनुत् ॥५॥
मूले शनैश्चरं गृह्य सप्तनक्ती ग्रहार्तिनुत् ॥६॥
टिप्पणी
१ अनुराधेत्यादिः ग्रहार्तिनुदित्यन्तः पाठः झ.. पुस्तके नास्ति
इत्याग्नेये महापुराणे वारव्रतानि नाम पञ्चवनत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP