संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
भुवनकोषः

अध्याय १०८ - भुवनकोषः

भगवान् अग्निदेवांनी या अग्नि पुराणात देवालय निर्माणच्या हेतु विषयांत  में आख्यान दिले आहे.


अग्निरुवाच
जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलिश्चापरो महान् ॥१॥
कुशः क्रौञ्चस्तथा शाकः पुष्करश्चेति सप्तमः ॥१॥
टिप्पणी
१ योगप्रस्तारे इति ग.. , ज.. , झ.. च
२ इन्द्रद्युम्नोभ्यजायतेति ख.. , छ.. च
३ प्रतीहारादित्यादिः, प्रस्तारतः सुत इत्यन्तः पाठो झ.. पुस्तके नास्ति
४ दुष्टादुष्टश्च विरजा इति ख..
एते द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः ॥२॥
लवणेक्षुसुरासर्पिर्दधिदुग्धजलैः समं(१) ॥२॥
जम्बूद्वीपो द्वीपमध्ये(२) तन्मध्ये मेरुरुच्छ्रितः(३) ॥३॥
चतुरशीतिसाहस्रो भूयिष्ठः(४) षोडशाद्विराट् ॥३॥
द्वात्रिंशन्मूर्ध्नि विस्तरात्षोडशाधः(५) सहस्रवान् ॥४॥
भूयस्तस्यास्य(६) शैलोऽसौ कर्णिकाकारसंस्थितः ॥४॥
हिमवान् हेमकूटश्च निषधश्चास्य दक्षिणे ॥५॥
नीलः श्वेतश्च शृङ्गो च उत्तरे वर्षपर्वताः ॥५॥
लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथापरे ॥६॥
सहस्रद्वितयोछ्रायास्तावद्विस्तारिणश्च ते ॥६॥
भारतं प्रथमं वर्षन्ततः किम्पुरुषं स्मृतं ॥७॥
हरिवर्सन्तथैवान्यन्मेरोर्दक्षिणतो द्विज ॥७॥
रम्यकं चोत्तरे वर्षं तथैवान्यद्धिरण्मयं(७) ॥८॥
उत्तराः कुरवश्चैव यथा वै भारतं तथा ॥८॥
नवसाहस्रमेकैकमेतेषां मुनिसत्तम ॥९॥
इलावृतञ्च तन्मध्ये सौवर्णा मेरुरुछ्रितः ॥९॥
मेरोश्चतुर्दिशन्तत्र नवसाहस्रविस्तृतं(८) ॥१०॥
टिप्पणी
१ दधिदुग्धजलान्तका इति ख.. , छ.. च
२ जम्बूद्वीपस्तस्य मध्ये इति ज..
३ मेरुरुत्थित इति झ..
४ भूमिष्ठ इति घ.. , ज.. च । भुविस्थ इति ङ..
५ षोडशांश इति झ..
६ भूपाद्मस्यास्य इति ख.. , ग.. , छ.. च
७ तथैवात्र हिरण्मयमिति ग.. । तथैवाथ हिरण्मयमिति ज..
८ इलावृतश्चेत्यादिः, नवसाहस्रविस्तृतमित्यन्तः पाठो छ.. पुस्तके नास्ति
इलावृतं महाभाग चत्वारश्चात्र पर्वताः ॥१०॥
विष्कम्भा रचिता मेरोर्योजनायुतविस्तृताः(१) ॥११॥
पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ॥११॥
विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः(२) ॥१२॥
कदम्बस्तेषु जम्बुश्च पिप्पलो बट एव च ॥१२॥
एकादशशतायामाः पादपा गिरिकेतवः ॥१३॥
जम्बूद्वीपेति सञ्ज्ञा स्यात्फलं जम्बा गजोपमं ॥१३॥
जम्बूनदीरसेनास्यास्त्विदं जाम्बूनदं(३) परं ॥१४॥
सुपार्श्वः पूर्वतो मेरोः केतुमालस्तु पश्चिमे ॥१४॥
वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनः ॥१५॥
वैभ्राजं पश्चिमे सौम्ये नन्दनञ्च सरांस्यथ ॥१५॥
अरुणोदं महाभद्रं संशितोदं(५) समानसं ॥१६॥
शिताभश्चक्रमुञ्जाद्याः पूर्वतः केशराचलाः(५) ॥१६॥
दक्षिणेन्द्रेस्त्रिकूटाद्याः शिशिवासमुखा जले(६) ॥१७॥
शङ्खकूटादयः सौम्ये मेरौ च ब्रह्मणः पुरी ॥१७॥
चतुर्दशसहस्राणि योजनानाञ्च दिक्षु च ॥१८॥
इन्द्रादिलोकपालानां समन्तात्ब्रह्मणः पुरः ॥१८॥
विष्णुपादात्प्लावयित्वा चन्द्रं स्वर्गात्पतन्त्यपि ॥१९॥
पूर्वेण शीता भद्राश्वाच्छैलाच्छैलाद्गतार्णवं ॥१९॥
तथैवालकनन्दापि दक्षिणेनैव भारतं(७) ॥२०॥
टिप्पणी
१ योजनायुतमुच्छ्रिता इति घ..
२ सुपार्श्वश्चोत्तरे स्थित इति घ..
३ रसनास्माद्धेमजाम्बुनदमिति ख.. , ग.. , घ.. , ङ.. , छ.. च
४ असितोदमिति ज..
५ पूर्वतः शिशिराचला इति ख.. , ग.. , घ.. , ज.. च
६ शशिवाममुखा जले इति ख.. , घ.. , ङ.. , छ.. च
७ दक्षिणेन च भारतमिति ख.. । दक्षिणेनैति भारतमिति ग..
प्रयाति सागरं कृत्वा सप्तभेदाथ पश्चिमं ॥२०॥
अब्धिञ्च चक्षुःसौम्याब्धिं भद्रोत्तरकुरूनपि(१) ॥२१॥
आनीलनिषधायामौ(२) माल्यवद्गन्धमादनौ ॥२१॥
तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः ॥२२॥
भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा ॥२२॥
पत्राणि लोकपद्मस्य मर्यादाशैलवाह्यतः ॥२३॥
जठरो देवकूटश्च मर्यादापर्वतावुभौ(३) ॥२३॥
तौ दक्षिणोत्तरायामावानीलनिषधायतौ ॥२४॥
गन्धमादनकैलासौ पूर्ववचायतावुभौ(४) ॥२४
अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ ॥२५॥
निषधः पारिपात्रश्च मर्यादापर्वतावुभौ ॥२५॥
मेरोः पश्चिमदिग्भागे यथा पूर्वे तथा स्थितौ ॥२६॥
त्रिशृङ्गो रुधिरश्चैव उत्तरौ वर्षपर्वतौ ॥२६॥
पूर्वपञ्चायतावेतावर्णवान्तर्व्यवस्थितौ ॥२७॥
जाठराद्याश्च मर्यादाशैला मेरोश्चतुर्दिशं ॥२७॥
केशरादिषु या द्रोण्यस्तासु सन्ति पुराणि हि ॥२८॥
लक्ष्मीविष्ण्वग्निसूर्यादिदेवानां मुनिसत्तम ॥२८॥
भौमानां स्वर्गधर्माणां न पापास्तत्र यान्ति च(५) ॥२९॥
टिप्पणी
१ भद्रोद्भवकुरूनपि इति ख..
२ अलीननिषधायामा इति ख.. , छ.. च
३ रम्यकमित्यादिः, मर्यादापर्वतावुभावित्यन्न्तः पाठो झ.. पुस्तके नास्ति
४ पूर्वपश्चायतावुभौ इति घ.. , ङ.. , ज.. च
५ भुमाः स्वर्गा धर्मिणान्ते न पापास्तत्र यान्ति च इति छ.. , ङ.. च । मौमानां स्वर्गधर्माणां तनया ह्यत्र यान्ति चेति ग.. , घ.. च । भोगिनां स्वर्गधर्माणां तनयास्तत्र यान्ति चेति ज..
भद्राश्वेऽस्ति हयग्रीवो वराहः केतुमालके ॥२९॥
भारते कूर्मरूपी च मत्स्यरूपः कुरुष्वपि ॥३०॥
विश्वरूपेण सर्वत्र पूज्यते भगवान् हरिः ॥३०॥
किम्पुरुषाद्यष्टसु क्षुद्भीतिशोकादिकं न च ॥३१॥
चत्तुर्विंशतिसाहस्रं प्रजा जीवन्त्यनामयाः ॥३१॥
कृतादिकल्पना नास्ति भौमान्यम्भांसि नाम्बुदाः ॥३२॥
सर्वेष्वेतेषु वर्षेषु सप्त सप्त कुलाचलाः ॥३२॥
नद्यश्च शतशस्तेभ्यस्तीर्थभूताः प्रजज्ञिरे ॥३३॥
भारते यानि नीर्थानि तानि तीर्थानि वच्मि ते ॥३३॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP