संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
रीतिनिरूपणम्

अध्याय ३४० - रीतिनिरूपणम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
वाग्विद्यासम्प्रतिज्ञने रीतिः सापि चतुर्विधा ।
पाञ्चली गौड़देशीया वैदर्भी लाटजा तथा ॥१॥

उपचारयुता मृद्वी पाञ्चाली ह्रस्वविग्रहा ।
अनवस्थितसन्दर्भा गौडीया दीर्घविग्रहा ॥२॥

उपचारैर्न्न बहुभिरुपचारैर्विवर्ज्जिता ।
नातिकोमलसन्दर्भा वैदर्भी मुक्तविंग्रहा ॥३॥

लाजीया स्फुजसन्दर्भा नातिविस्फुरविग्राहा ।
परित्यक्तापि भूयोभिरुपचारैरुदाहृता ॥४॥

क्रियास्वविषमा वृत्तिर्भारत्यारभटी तथा ।
कौशिकी सात्वती चैति सा चतुर्द्धा प्रतिष्ठिता ॥५॥

वाक्‌प्रधाना नरप्राया स्त्रीयुक्ता प्राकृतोक्तिता ।
भरतेन प्रणीतत्वात् भारती रीतिरुच्यते ॥६॥

चत्वार्य्यङ्गानि भारत्या वीथी प्रहसनन्तथा ।
प्रस्तावना नाटकादेर्व्वीथ्यङ्गाश्च त्रयोदश ॥७॥

उद्‌घातकं तथैव स्याल्लपितं स्याद्‌द्वितीयकम् ।
असत्प्रलापो वाक्‌श्रेणी नांनिका विपणन्तथा ॥८॥

व्याहारस्रिमतञ्चैव छलावस्कन्दिते तथा ।
गण्डोऽथ मृदवश्चैव त्रयोदशमथाचितम् ॥९॥

तापसादेः प्रहसनं परिहासपरं वचः ।
मायेन्द्रजालयुद्धादिबहुलारभटी स्मृता ॥१०॥

सङ्‌क्षिप्तकारपातौ च वस्तूत्थापनमेव च ॥११॥

इत्यादिमहापुराणे आग्नेये रीतिनिरूपणं नाम चत्वारिंशदधिकत्रिशततमोऽध्यायः॥

N/A

References : N/A
Last Updated : September 23, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP