संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
सर्वपापप्रायश्चित्तानि

अध्याय १७२ - सर्वपापप्रायश्चित्तानि

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


पुष्कर उवाच
परदारपरद्रव्यजीवहिंसादिके यदा ॥१॥
प्रवर्तते नृणां चित्तं प्रायश्चित्तं स्तुतिस्तदा ॥१॥
विष्णवे विष्णवे नित्यं विष्णवे विष्णवे(१) नमः ॥२॥
नमामि विष्णुं चित्तस्थमहङ्कारगतिं हरिं ॥२॥
चित्तस्थमीशमव्यक्तमनन्तमपराजितं ॥३॥
विष्णुमीड्यमशेषेण अनादिनिधनं विभुं ॥३॥
विष्णुश्चित्तगतो यन्मे विष्णुर्बुद्धिगतश्च यत् ॥४॥
यच्चाहङ्कारगो विष्णुर्यद्विष्णुर्मयि संस्थितः ॥४॥
करोति कर्मभूतोऽसौ स्थवरस्य चरस्य च ॥५॥
तत्पापन्नाशमायातु तस्मिन्नेव हि चिन्तिते ॥५॥
ध्यातो हरति यत्पापं स्वप्ने दृष्टस्तु भावनात् ॥६॥
तमुपेन्द्रमहं विष्णुं प्रणतार्तिहरं हरिं ॥६॥
जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः ॥७॥
हस्तावलम्बनं विष्णुं प्रणमामि परात्परं ॥७॥
सर्वेश्वरेश्वर विभो परमात्मन्नधोक्षज ॥८॥
हृषीकेश हृषीकेश हृषीकेश नमोऽस्तु ते ॥८॥
नृसिंहानन्त गोविन्द भूतभवन केशव ॥९॥
टिप्पणी
१ विष्णवे विष्णवे इति ज.. , ञ.. च
दुरुक्तं दुष्कृतं ध्यातं शमयाघन्नमोऽस्तु ते ॥९॥
यन्मया चिन्तितं दुष्टं स्वचित्तवशवर्तिना ॥१०॥
अकार्यमहदत्युग्रन्तच्छमन्नय केशव ॥१०॥
ब्रह्मण्यदेव गोविन्द परमार्थपरायण ॥११॥
जगन्नाथ जगद्धातः पापं प्रशमयाच्युत ॥११॥
यथापराह्णे सायाह्णे मध्याह्णे च तथा निशि ॥१२॥
कायेन मनसा वाचा कृतं पापमजानता ॥१२॥
जानता च हृषीकेश पुण्डरीकाक्ष माधव ॥१३॥
नामत्रयोच्चारणतः स्वप्ने यातु मम क्षयं ॥१३॥
शारीरं मे हृषीकेश पुण्डरीकाक्ष माधव ॥१४॥
पापं प्रशमयाद्य त्वं(१) बाक्कृतं मम माधव ॥१४॥
यद्भुञ्जन्यत्स्वपंस्तिष्ठन् गच्छन् जाग्रद्यदास्थितः ॥१५॥
कृतवान् पापमद्याहं कायेन मनसा गिरा ॥१५॥
यत्स्वल्पमपि यत्स्थूलं कुयोनिनरकाबहं ॥१६॥
तद्यातु प्रशमं सर्वं वासुदेवानुकीर्तनात् ॥१६॥
परं ब्रह्म परं धाम पवित्रं परमञ्च यत् ॥१७॥
तस्मिन्(२) प्रकीर्तिते विष्णौ यत्पापं तत्प्रणश्यतु ॥१७॥
यत्प्राप्य न निवर्तन्ते गन्धस्पर्शदिवर्जितं ॥१८॥
सूरयस्तत्पदं विष्णोस्तत्सर्वं शमयत्वघं(३) ॥१८॥
पापप्रणाशनं स्तोत्रं यः पठेच्छृणुयादपि(४) ॥१९॥
टिप्पणी
१ प्रशमात्यर्थमिति ख.. , घ.. , ज.. च
२ अस्मिन्निति घ..
३ सर्वं गमयत्वघमिति झ..
४ यः पठेच्छ्रद्धया नर इति ज.. , झ.. च । यः पठेच्छृणुयान्नर इति ञ..
शारीरैर्मानसैर्वाग्जैः कृतैः पपैः प्रमुच्यते ॥१९॥
सर्वपापग्रहादिभ्यो याति विष्णोः परं पदं ॥२०॥
तस्मात्पापे कृते जप्यं स्तोत्रं सर्वाघमर्दनं ॥२०॥
प्रायश्चित्तमघौघानां स्तोत्रं व्रतकृते वरं ॥२१॥
प्रायश्चित्तैः स्तोत्रजपैर्व्रतैर्नश्यति पातकं ॥२१॥
ततः कार्याणि(१) संसिद्ध्यै तानि वै भुक्तिमुक्तये ॥२२॥२२॥

इत्याग्नेये महापुराणे सर्वपापप्रायश्चित्ते पापनाशनस्तोत्रं नाम द्विसप्तत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 18, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP