संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
लिङ्गमानादिकथनम्

अध्याय ५४ - लिङ्गमानादिकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


भगवानुवाच
वक्ष्याम्यन्यप्रकारेण लिङ्गमानादिकं श्रृणु ।
वक्ष्ये लवणजं लिङ्गं घृतजं बुद्धिवर्द्धनम् ॥१॥
भूतये वस्त्रलिङ्गन्तु लिङ्गन्तात्‌कालिकं विदुः ।
पक्कापक्वं मृण्मयं स्यादपक्कात् पक्क्जं वरम् ॥२॥
ततो दारुमयं पुण्यं दारुजात् शैलजं वरम् ।
शैलाद्वरं तु मुक्ताजं ततो लौहं सुवर्णजम् ॥३॥
राजतं कीर्त्तितं ताम्रं पैत्तलं भुक्तिमुक्तिदम् ।
रङ्गजं रसलिङ्गञ्च भुक्तिमुक्तिप्रदं वरम् ॥४॥
रसजं रसलोहादिरत्नगर्भन्तु वर्धयेत् ।
मानादि नेष्टं सिद्धादि स्थापितेथ स्वयम्भुवि ॥५॥
वामे च स्वेच्छया तेषां पीठप्रासादकल्पना ।
पूजयेत् सूर्य्यविम्बस्थं दर्पणे प्रतिविम्बितम् ॥६॥
पूज्यो हरस्तु सर्वत्र लिङ्गे पूर्णार्च्चनं भवेत् ।
हस्तोत्तरविधं शैलं दारुजं तद्वदेव हि ॥७॥
चलमङ्गुलमानेन द्वारगर्भकरैः स्थितम् ।
अङ्गुलाद् गृहलिङ्गं स्याद्यावत् पञ्चदशाङ्गुलम् ॥८॥
द्वारमानात् त्रिसङ्ख्याकं नवधा गर्भमानतः ।
नवधा गर्भमानेन लिङ्गन्धाम्नि च पूजयेत् ॥९॥
एवं लिङ्गानि षट्‌त्रिंशत् ज्ञेयानि ज्येष्ठमानतः ।
मध्यमानेन षट्‌त्रिंशत् षट्‌त्रिशदधमेन च ॥१०॥
इत्थमैक्येन लिङ्गानां शतमष्टोत्तरं भवेत् ।
एकाङ्गुलादिपञ्चान्तं कन्यसञ्चलमुच्यते ॥११॥
षडादिदशपर्यन्तञ्चलं लिङ्गञ्च मध्यमम् ।
एकादशाङ्गुलादि स्यात् ज्येष्ठं पञ्चदशान्तकम् ॥१२॥
षडङ्गुलं महारत्नै रत्नैरन्यैर्न्नवाङ्गुलम् ।
रविभिर्हेमभारोत्थं लिङ्गं शेषैस्त्रिपञ्चभिः ॥१३॥
षोडशांशे च वेदांशे युगं लुप्त्वोर्ध्वदेशतः ।
द्वात्रिंशत्‌षोडशांशांश्च कोणयोस्तु विलोपयेत् ॥१४॥
चतुर्निवेशनात् कण्ठो विंशतिस्त्रियुगैस्तथा ।
पार्श्वाभ्यां तु विलुप्ताभ्यां चललिङ्गं भवेद्वरम् ॥१५॥
धाम्नो युगर्त्तुनागांशैर्द्वारं हीनादितः क्रमात् ।
लिङ्गद्वारोच्छयादर्वाग् भवेत् पादोनतः क्रमात् ॥१६॥
गर्भार्द्धेनाधम लिङ्गं भूतांशैः स्यात् त्रिभिर्वरम् ।
तयोर्मध्ये च सूत्राणि सप्त सम्पातयेत् समम् ॥१७॥
एवं स्युर्नव सूत्राणि भूतसूत्रैश्च मध्यमम् ।
द्व्यन्तरो वामवामश्च लिङ्गनां दीर्घता नव ॥१८॥
हस्ताद्विवर्द्धते हस्तो यावत्स्युर्न्नव पाणयः ।
हीनमध्योत्तमं लिङ्गं त्रिविधं त्रिविधात्मकम् ॥१९॥
एकैकलिङ्गमद्येषु त्रीणी च पादशः ।
लिङ्गानि घटयेद्धीमान् षटसु चाश्टोत्तरेषु च ॥२०॥
स्थिरदीर्घप्रमेयात्तु द्वारगर्भकरात्मिका ।
भागेशञ्चाप्यमीशञ्च देवेज्यन्तुल्यसंज्ञितम् ॥२१॥
चत्वारि लिङ्गरुपाणि विष्कम्बेण तु लक्षयेत् ।
दीर्घमायान्वितं कृत्वा लिङ्गं कुर्य्यात् त्रिरूपकम् ॥२२॥
चतुरष्टाष्टवृत्तञ्च तत्तवत्रयगुणात्मकम् ।
लिङ्गानामीप्सितं दैर्ध्यं तेन कृत्वा ङ्गुलानि वै ॥२३॥
ध्वजाद्यायैः सुरैर्भूतैः शिखिभिर्व्वा हरेत् कृतिम् ।
तान्यङ्गुलानि चच्छेषं लक्षयेच्च शुभाशुभम् ॥२४॥
ध्वजाद्या ध्वजसिंहेभवृषा श्रेष्ठाः परे शुभाः ।
खरेषु षड्‌जगान्धारपञ्चमाः शुभदायकाः ॥२५॥
भूतेषु च शूबा भूः स्यादग्निष्वाहवनीयकः ।
उत्तायामस्य चार्द्धाशे नागांशैर्भाजिते क्रमात् ॥२६॥
रसभूतां शषष्ठांशत्र्यंशाधिकशरैर्भवेत् ।
आढ्यानाध्यसुरेज्यार्कतुल्यानाञ्चतुरस्रता ॥२७॥
पञ्चमं वर्द्धमानाख्यं व्यासान्नाहप्रवृद्धितः ।
द्विधा भेदा बहून्यत्र वक्ष्यन्ते विश्वकर्म्मतः ॥२८॥
आढ्यादीनां त्रिधा स्थौल्याद्यवधूतं तदष्यथ ।
त्रिधा हस्ताकज्जिनाख्यञ्च युक्तं सर्वसमेन च ॥२९
पञ्चविंशतिलिङ्गानि नाद्ये देवार्च्चिते तथा ।
पञ्चसप्तभिरेकत्वाज्जिनैर्भक्तैर्भवन्ति ॥३०॥
चतुर्दशसहस्त्राणि चतुर्दशशतानि च ।
एवमष्टाङऱ्गुलविस्तारो नवैककरगर्भतः ॥३१
तेषां कोणार्द्धकोणस्थैश्चिन्त्यात् कोणानि सूत्रकैः ।
विस्तारं मध्यतः कृत्वा स्थाप्यं वा मध्यतस्त्रयम् ॥३२॥
विभागादूद्‌र्ध्वमष्टास्रो द्व्यष्टास्रः स्याच्छिवांशकः ।
पादाज्जान्तको ब्रह्मा नाभ्यन्तो विष्णुरित्यतः ॥३३॥
मूद्‌र्ध्वान्तो भूतभागेशो व्यक्तेऽव्यक्ते च तद्वति ।
पञ्चलिङ्गव्यवस्थायां शिरो वर्त्तुलमुच्यते ॥३४॥
छत्राभं कुक्कुटाभं वा बालेन्दुप्रतिमाकृतिः ।
एकैकस्य चतुर्भेदैः काम्यभेदात् फलं वदे ॥३५॥
लिङ्गमस्तकविस्तारं वसुभक्तन्तु कारयेत् ।
आद्यभागं चतुर्द्धा तु विस्तारोच्छायतो भजेत् ॥३६॥
चत्वारि तत्र सूत्राणि भागभागानुपातनात् ।
पुण्डरीकन्तु भागेन विशालाख्यं विलोपनात् ॥३७॥
त्रिशातनात्तु श्रीवत्सं शत्रुकृद्वेदलोपनात् ।
शिरः सर्वसमे श्रेष्ठं कुक्कुटाभं सुराह्वये ॥३८॥
चतुर्भागात्मके लिङ्गे त्रपुषं द्वयलोपनात् ।
अनाद्यस्य शिरः प्रोक्तमर्द्धचन्द्रं शिरः श्रृणु ॥३९॥
अंशात् प्रान्ते युगांशैश्च त्वेकहान्यामृताक्षकम् ।
पूर्णवालेन्दुकुमुदं द्वित्रिवेदक्षयात् क्रमात् ॥४०॥
चतुस्त्रिरेकवदनं सुखलिङ्गमतः श्रृणु ।
पूजाभागं प्रकर्त्तव्यं मर्त्त्यग्निपदकल्पितम् ॥४१॥
अर्क्काशंपूर्ववत् त्यक्त्वा षट स्थानानि विवर्त्तयेत् ।
शिरोन्नतिः प्रकर्त्तव्या ललाटं नासिका ततः ॥४२॥
वदनं चिवुकं ग्रीवा युगभागैर्भुजाक्षिभिः ।
कराभ्यां मुकुलीकृत्य प्रतिमायाः प्रमाणतः ॥४३॥
मुखं प्रति समः कार्या विस्तारादष्टमांशतः ।
चतुर्मुखं मया प्रोक्तं त्रिमुखञ्चोच्यते श्रृणु ॥४४॥
कर्णपादाधिकास्तस्य ललाटादीनि निर्दिशेत् ।
भुजौ चतुर्भिर्भागैम्तु कर्त्तव्यौ पञ्चिमोर्जितम् ॥४५॥
विस्तरादष्टमांशेन मुखानां प्रतिनिर्गमः ।
एकवक्त्रं तथा कार्य्यं पूर्वस्यां सौम्यलोचनम् ॥४६॥
ललाटनासिकावक्त्रग्नीवायाञ्च विवर्त्तयेत् ।
भुजाच्च पञ्चमांशेन भुजहीनं विवर्तयेत् ॥४७॥
विस्तारस्य षडंशेन मुखैर्निर्गमनं हितम् ।
सर्वषां मुखलिङ्गानां त्रपुषं वाथ कुक्कुटम् ॥४८॥

इत्यादिमहापुराणे आग्नेये व्यक्ताव्यक्तलक्षणं नाम चतुःपञ्चाशत्तमोऽध्यायः ।

N/A

References : N/A
Last Updated : September 16, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP