संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
बुद्धाद्यतारकथनम्

अध्याय १६ - बुद्धाद्यतारकथनम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


अग्निरुवाच
वक्ष्ये बुद्धावतारञ्च पठतः श्रृण्वतोर्थदम् ।
पुरा देवासुरे युद्धे देत्यैर्द्देवाः पपाजिताः ॥१॥

रक्ष रक्षेति शरणं वदन्तो जग्मुरीश्वरम् ।
मायामोहस्वरूपोसौ शुद्धोदनसुतोऽभवत् ॥२॥

मोहयामास दैत्यांस्तांस्त्याजिता वेदधर्मकम् ।
ते च बौद्धा बभूवुर्हि तेभ्योन्ये वेदवर्जिताः ॥३॥

आर्हतः सोऽभवत् पश्चादार्हतानकरोत् परान् ।
एवं पाषण्डिनो जाता वेदधर्म्मादिवर्जिताः ॥४॥

नारकार्हं कर्म चक्रुर्ग्रहीष्यन्त्यधमादपि ।
सर्वे कलियुगान्ते तु भविष्यन्ति च सङ्कराः ॥५॥

दस्यवः शीलहीनाश्च वेदो वाजसनेयकः ।
दश पञ्च च शाखा वै प्रमाणेन भविष्यति ॥६॥

धर्म्मकञ्चुकसंवीता अधर्मरुचयस्तथा ।
मानुपान् भक्षयिष्यन्ति म्लेच्छाः पार्थिवरूपिणः ॥७॥

कल्की विष्णुयशः पुत्रो याज्ञवल्क्यपुरोहितः ।
उत्सादयिष्यति म्लेच्छान् गृहीतास्त्रः कृतायुधः ॥८॥

स्थापयिष्यति मर्यादां चातुर्वर्ण्ये यथोचिताम् ।
आश्रमेषु च सर्वेषु प्रजाः सद्धर्म्मवर्त्मनि ॥९॥

कल्किरूपं परित्यज्य हरिः स्वर्गं गमिष्यति ।
ततः कृतयुगन्नाम पुरावत् सम्भविष्यति ॥१०॥

वर्णाश्रमाश्च धर्मेषु स्वेषु स्थास्यन्ति सत्तम ।
एवं सर्वेषु कल्पेषु सर्वमन्वन्तरेषु च ॥११॥

अवतारा असङ्ख्याता अतीतानागतादयः ।
विष्णोर्द्दशावताराख्यान्‌यः पठेत् श्रृणुयान्नरः ॥१२॥

सोवाप्तकामो विमलः सकुलः स्वर्गमाप्नुयात् ।
धर्म्माधर्म्मव्यवस्थानमेवं वै कुरुते हरीः॥
अवतीर्णश्च स गतः सर्गादेः कारणं हरिः ॥१३॥

इत्यदिमहापुराणे आग्नेये बुद्धकल्क्यवतारवर्णनं नाम षोडशोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 14, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP