अध्याय ९९- सूर्यप्रतिष्ठाकथनं
अग्निपुराणात त्रिदेव – ब्रह्मा, विष्णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.
ईश्वर उवाच
वक्ष्ये सूर्यप्रतिष्ठाञ्च पूर्ववन्मण्डपादिकं ॥१॥
स्नानादिकञ्च सम्याद्य(१) पूर्वोक्तविधिना ततः ॥१॥
विद्यामासनशय्यायां साङ्गं विन्यस्य भास्करं ॥२॥
त्रितत्त्वं विन्यसेत्तत्र सस्वरं खादिपञ्चकं ॥२॥
शुद्ध्यादि पूर्ववत्कृत्वा पिण्डीं संशोध्य पूर्ववत् ॥३॥
सदेशपदपर्यन्तं विन्यस्य तत्त्वपञ्चकं(२) ॥३॥
शक्त्या च सर्वतोमुख्या संस्थाप्य विधिवततः ॥४॥
स्वाणुना(३) विधिवत्सूर्यं शक्त्यन्तं(४) स्थापयेद्गुरुः ॥४॥
स्वाम्यन्तमथवादित्यं पादान्तन्नाम धारयेत् ॥५॥
सूर्यमन्त्रास्तु(५) पूर्वोक्ता द्रष्टव्याः स्थापनेपि च(६) ॥५॥
इत्याग्नेये महापुराणे सूर्यप्रतिष्ठा नामैकोनशततमोऽध्यायः ॥
N/A
References : N/A
Last Updated : September 16, 2020

TOP