संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
नानाबलानि

अध्याय १२७ - नानाबलानि

भगवान् अग्निदेवांनी या अग्नि पुराणात चौसष्ट योगनींचे का सविस्तार वर्णन केले आहे.


ईश्वर उवाच(२)
विष्कुम्भे घटिकास्तिस्रः शूले पञ्च विवर्जयेत्(३) ॥१॥
षट्षट्(४) गण्डेऽनिगण्डे च नव व्याद्यातवज्रयोः ॥१॥
परिघे च व्यतीपाते उभयोरपि तद्दिनम् ॥२॥
वैधृते तद्दिनञ्चैव यात्रायुद्धादिकन्त्यजेत् ॥२॥
ग्रहैः शुभाशुभं वक्ष्ये देवि मेषादिराशितः(५) ॥३॥
चन्द्रशुक्रौ च जन्मस्थ्यौ वर्जितौ शुभदायकौ ॥३॥
टिप्पणी
२ अग्निरुवाचेति छ..
३ पञ्च च वर्जयेदिति ख.. , ग.. , घ.. , ङ.. च
४ षट्च गण्डेऽतिगण्डे चेति ख.. , घ.. , छ.. च । सप्त गण्डेतिगण्डे चेति ग.. , ङ.. च
५ मेषादिराशिभिरिति ज..
द्वितीयो मङ्गलोऽथार्कः सौरिश्चैव तु सैंहिकः ॥४॥
द्रव्यनाशमलाभञ्च आहवे भङ्गमादिशेत् ॥४॥
सोमो बुधो भृगुर्जीमो द्वितीयस्थाः शुभावहाः ॥५॥
तृतीयस्थो यदा भानुः शनिर्भौमो भृगुस्तथा ॥५॥
बुधश्चैवेन्दू राहुश्च सर्वे ते फलदा ग्रहाः ॥६॥
बुधशुक्रौ चतुर्थौ तु शेषाश्चैव भयावहाः ॥६॥
पञ्चमस्थो यदा जीवः शुक्रः सौम्यश्च चन्द्रमाः ॥७॥
ददेत(१) चेप्सितं लाभं षष्ठे स्थाने शुभो रविः ॥७॥
चन्द्रः सौरिर्मङ्गलश्च ग्रहा देवि स्वराशितः ॥८॥
बुधश्च शुभदः षष्ठे त्यजेत्षष्ठं गुरुं भृगुं ॥८॥
सप्तमोऽर्कः शनिर्भौमो राहुर्हान्यै सुखाय च ॥९॥
जीवो भृगुश्च सौम्यश्च ज्ञशुक्रो चाष्टमौ शुभौ ॥९॥
शेषा ग्रहास्तथा हान्यै ज्ञभृगू नवमौ शुभौ ॥१०॥
शेषा हान्यै च लाभाय दशमौ भृगुभास्करौ ॥१०॥
शनिर्भौमश्च राहुश्च चन्द्रः सौम्यः शुभावहः ॥११॥
शुभाश्चैकादशे सर्वे वर्जयेद्दशमे(२) गुरुम् ॥११॥
बुधशुक्रौ द्वादशस्थौ शेषान् द्वादशगांस्त्यजेत् ॥१२॥
अहोरात्रे द्वादश स्यू राशयस्तान् वदाम्यहम् ॥१२॥
मीनो मेषोऽथ मिथुनञ्चतस्रो नाडयो वृषः ॥१३॥
षट्कर्कसिंहकन्याश्च तुला पञ्च च वृश्चिकः ॥१३॥
धनुर्नक्रो घटश्चैव सूर्यगो राशिराद्यकः ॥१४॥
टिप्पणी
१ ददातीति ख..
२ वर्जयेद्दशमिति ख.. , ग.. , घ.. , ङ.. च
चरस्थिरद्विःस्वभावा मेषाद्याः स्युर्यथाक्रमम् ॥१४॥
कुलीरो मकरश्चैव तुलामेषादयश्चराः ॥१५॥
चरकार्यं जयं काममाचरेच्च शुभशुभम् ॥१५
स्थिरो वृषो हरिः कुम्भो वृश्चिकः स्थिरकार्यके ॥१६॥
शीघ्रः समागमो नास्ति रोगार्तो नैव मुच्यते ॥१६॥
मिथुनं कन्यका मौनी धनुश्च द्विःस्वभावकः ॥१७॥
द्विःस्वभावाः शुभाश्चैते सर्वकार्येषु नित्यशः ॥१७॥
यात्रावाणिज्यसङ्ग्रामे विवाहे राजदर्शने ॥१८॥
वृद्धिं जयन्तथा लाभं युद्धे जयमवाप्नुयात् ॥१८॥
अश्विनी विंशताराश्च तुरगस्याकृतिर्यथा ॥१९॥
यद्यत्र कुरुते वृष्टिमेकरात्रं प्रवर्षति ॥१९॥
यमभे तु यदा वृष्टिः पक्षमेकन्तु वर्षति ॥२०॥१२७.०२०॥

इत्याग्नेये महापुराणे युद्धजयार्णवे नानाबलानि नाम सप्तविंशत्यधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP