संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
सेवाचक्रम्

अध्याय १३२ - सेवाचक्रम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


सेवाचक्रं प्रवक्ष्यामि लाभालाभानुसूचकं(२) ॥१॥
पिता माता तथा भ्राता दम्पती च विशेषतः ॥१॥
टिप्पणी
२ लाभालाभार्थसूचकमिति झ.. , ञ.. च
तस्मिंश्चक्रे तु विज्ञेयं यो यस्माल्लभते फलं ॥२॥
षडूर्ध्वाः स्थापयेद्रेखा भिन्नाश्चाष्तौ तु तिर्यगाः ॥२॥
कोष्ठकाः पञ्चत्रिंशच्च तेषु वर्णान् समालिखेत् ॥३॥
स्वरान् पञ्च समुद्धृत्य स्पर्शान् पश्चात्समालिखेत् ॥३॥
ककारादिहकारान्तान् हीनाङ्गांस्त्रीन्विवर्जयेत् ॥४॥
सिद्धः साध्यः सुसिद्धश्च अरिर्मृत्युश्च नामतः ॥४॥
अरिर्मृत्युअश्च द्वावेतौ वर्जयेत्सर्वकर्मसु ॥५॥
एषां मध्ये यदा नाम लक्षयेत्तु प्रयत्नतः ॥५॥
आत्मपक्षे(१) स्थिताः सत्त्वाः सर्वे ते शुभदायकाः ॥६॥
द्वितीयः पोषकाश्चैव तृतीयश्चार्थदायकः ॥६॥
आत्मनाशश्चतुर्थस्तु(२) पञ्चमो मृत्युदायकः ॥७॥
स्थानमेवार्थलाभाय मित्रभृत्यादिवान्धवाः ॥७॥
सिद्धः साध्यः सुसिद्धश्च सर्वे ते फलदायकाः ॥८॥
अरिर्भृत्यश्च द्वावेतौ वर्जयेत्सर्वकर्मसु(३) ॥८॥
अकारान्तं यथा प्रोक्तं अ+इ+उ+ए+ओ विदुस्तथा ॥९॥
पुनश्चैवांशकान् वक्ष्ये वर्गाष्टकसुसंस्कृतान् ॥९॥
देवा अकारवर्गे दैत्याः कवर्गमाश्रिताः ॥१०॥
नागाश्चैव चवर्गाः स्युर्गन्धवाश्च टवर्गजाः ॥१०॥
टिप्पणी
१ स्वार्थपक्षे इति ख.. , घ.. , ज.. , ञ.. च । स्वात्मपक्षे इति झ..
२ स्वार्थनाशश्चतुर्थस्तु इति ख.. , घ.. , ङ.. , ज.. , ञ.. च
३ अरिर्मृत्युरित्यादिः, सर्वकर्मसु इत्यन्तः पाठः छ.. पुस्तके नास्ति
तवर्गे ऋषयः प्रोक्ताः पवर्गे राक्षसाः स्मृताः ॥११॥
पिशाचाश्च यवर्गे च शवर्गे मानुषाः स्मृताः ॥११॥
देवेभ्यो बलिनो दैत्या दैत्येभ्यः पन्नगास्तथा(१) ॥१२॥
पन्नगेभ्यश्च गन्धर्वा गन्धर्वादृषयो वराः ॥१२॥
ऋषिभ्यो राक्षसाः शूरा राक्षसेभ्यः पिशाचकाः ॥१३॥
पिशाचेभ्यो मानुषाः स्युर्दुर्बलं वर्जयेद्बली ॥१३॥
पुनर्मित्रविभागन्तु ताराचक्रं क्रमाच्छृणु ॥१४॥
नामाद्यक्षरमृक्षन्तु स्फुटं कृत्वा तु पर्वतः ॥१४॥
ऋक्षे तु संस्थितास्तारा नवत्रिका यथाक्रमात् ॥१५॥
जन्म सम्पद्विपत्क्षेमं नामर्क्षात्तारका इमाः ॥१५॥
प्रत्यरा धनदा षष्ठी नैधनामैत्रके परे ॥१६॥
परमैत्रान्तिमा तारा जन्मतारा त्वशोभना ॥१६॥
सम्पत्तारा महाश्रेष्ठा विपत्तारा तु निष्फला ॥१७॥
क्षेमतारा सर्वकार्ये प्रत्परा अर्थनाशिनी(२) ॥१७॥
धनदा राज्यलाभादि नैधना कार्यनाशिनी ॥१८॥
मैत्रतारा च मित्राय परमित्रा हितावहा(३) ॥१८॥
ताराचक्रम् ।
मात्रा वै स्वरसञ्ज्ञा स्यान्नाममध्ये क्षिपेत्प्रिये ॥१९॥
विंशत्या च हरेद्भागं यच्छेषं तत्फलं भवेत् ॥१९॥
उभयोर्त्रासमध्ये तु लक्षयेच्च धनं ह्यृणं ॥२०॥
हीनमात्रा ह्यृणं ज्ञेयन्धनं मात्राधिकं पुनः ॥२०॥
टिप्पणी
१ पन्नगास्तत्र इति क.. , ग.. , घ.. , ङ.. , ञ.. च । पन्नगाः स्मृता इति झ..
२ प्रत्यरा चात्मनाशिनी इति छ..
३ हिताय चेति ङ..
धनेन मित्रता नॄणां ऋणेनैव ह्युदासता ॥२१॥
सेवाचक्रमिदं प्रोक्तं लाभालाभादिदर्शकं ॥२१॥
मेषमिथुनयोः प्रीतिर्मैत्री मिथुनसिंहयोः ॥२२॥
तुलासिंहौ महामैत्री एवं धनुर्घटे पुनः ॥२२॥
मित्रसेवां न कुर्वीत मित्रौ मीनवृषौ मतौ ॥२३॥
वृषकर्कटयोर्मैत्री कुलीरघटयोस्तथा ॥२३॥
कन्यावृश्चिकयोरेवन्तथा मकरकीटयोः ॥२४॥
मीनमकरयोर्मैत्री तृतीयैकादशे स्थिता ॥२४॥
तुलामेषौ महामैत्री विद्विष्टो वृषवृश्चिकौ ॥२५॥
मिथुनधनुषोः प्रीतिः कर्कटमकरयोस्तथा ॥२५॥
मृगकुम्भकयोः प्रीतिः कनामीनौ तथैव च ॥२६॥१३२.०२६॥

इत्याग्नेये महापुराणे युद्धजयार्णवे सेवाचक्रं नाम द्वात्रिंशदधिकशततमोऽध्यायः ॥

N/A

References : N/A
Last Updated : September 17, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP