संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण| वाक्पारुष्यादिप्रकरणम् अग्निपुराण महत्व ग्रन्थप्रस्तावना मत्स्यावतारवर्णनम् कूर्मावतारवर्णनम् वराहाद्यवतारवर्णनम् श्रीरामावतारवर्णनम् अयोध्याकाण्डवर्णनं आरण्यककाण्डवर्णनं किष्किन्धाकाण्डर्णनं सुन्दरकाण्डवर्णनं युद्धकाण्डवर्णनं उत्तरकाण्डवर्णनं श्रीहरिवंशवर्णनम् कुरुपाण्डवोत्पच्यादिकथनम् कुरुपाण्डवसङ्ग्रामवर्णनम् पाण्डवचरितवर्णनम् बुद्धाद्यतारकथनम् सृष्टिविषयकवर्णनम् स्वायम्भुववंशवर्णनम् कश्यपवंशवर्णनम् सर्गविषयकवर्णनम् सामान्यपूजाकथनम् स्नानविधिकथनम् पूजाविधिकथनम् वासुदेवादिमन्त्रनिरूपणम् मुद्रालक्षणकथनम् अभिषेकविधानम् सर्वतोभद्रमण्डलकथनम् मण्डलविधिः मार्जनविधानम् संस्कारकथनं पवित्रारोहणविधानम् होमादिविधिः पवित्राधिवासनादिविधिः पवित्राशेपणविधानम् सर्वदेवपवित्राशेहणविधिः देवालयनिर्म्माणफलम् भृपरिग्रहविधानम् अर्घ्यदानविधानम् शिलादिन्यासविधानम् प्रासादलक्षणकथनम् प्रासाददेवतास्थापनम् भूतशान्त्यादिकथनम् वासुदेवादिप्रातिमालक्षणविधिः पिण्डिकालक्षणकथनम् शालग्रामादिमूर्त्तिलक्षणकथनम् शालग्रामादिपूजनकथनम् चतुर्विंशतिमूर्त्तिंस्तोत्रकथनम् मत्स्यादिसक्षणवर्णनम् देवीप्रतिमालक्षणकथनम् सूर्यादिप्रतिमालक्षणम् देवीप्रतिमालक्षणम् लिङ्गलक्षणम् लिङ्गमानादिकथनम् पिण्डिकालक्षणकथनम् दिक्पालयागकथनम् कुम्भाधिवासविधिः स्नानादिविधिः अधिवासकथनम् वासुदेवप्रतिष्ठादिविधिः ध्वजारोहणं लक्ष्मीप्रतिष्ठाविधिः सुदर्शनचक्रादिप्रतिष्ठाकथनं कूपादिप्रतिष्ठाकथनं सभास्थापनकथनं साधारणप्रतिष्ठाविधानं जीर्णोद्धारविधानं यात्रोत्सवविधिकथनं स्नानविधानं अध्याय ७० -पादपारामप्रतिष्ठाकथनं अग्नि पुराण अग्नि पुराण सुदर्शनचक्रादिप्रतिष्ठाकथनम् अग्निस्थापनादिप्रतिष्ठाकथनम् अग्निस्थापनादिप्रतिष्ठाकथनम् कपिलादिपूजाविधानम् पवित्रारोहणकथनम् पवित्रारोहणविधि दमनकारोहणावेधिः समयदीक्षाविधानम् संस्कारदीक्षाकथनम् निर्वाणादीक्षाकथनम् निर्वाणदीक्षाविधानम् प्रतिष्ठाकलाशोधनोक्तिः विद्याविशोधनविधानम् शान्तिशोधनकथनम् निर्वाणदीक्षाकथनम् एकतत्त्वदीक्षाकथनम् अभिषेकादिकथनम् विविधमन्त्रादिकथनम् प्रतिष्ठाविधिकथनम् वास्तुपूजादिविधानम् शिलाविन्यासविधानम् प्रतिष्ठासामग्रीविधानम् अधिवासनविधिः शिवप्रतिष्ठाकथनम् गौरीप्रतिष्ठाकथनम् अध्याय ९९- सूर्यप्रतिष्ठाकथनं द्वारप्रतिष्ठा प्रासादप्रतिष्ठा ध्वजारोपणं जीर्णोद्धारः सामान्यप्रासादलक्षणं गृहादिवास्तुर्नामः नगरादिवास्तुः स्वायम्भुवसर्गः भुवनकोषः तीर्थमाहात्म्यम् गङ्गामाहात्म्यं प्रयागमाहात्म्यं वाराणसीमाहात्म्यम् नर्मदादिमाहात्म्यम् गयामाहात्म्यम् गयायात्राविधिः गयायात्राविधिः श्राद्धकल्पः भारतवर्षं महाद्वीपादि भुवनकोषः ज्योतिःशास्त्रं कालगणनं युद्धजयार्णवीयनानायोगाः युद्धजयार्णवीयज्योतिःशास्त्रसारः युद्धजयार्णवीयनानाचक्राणि नक्षत्रनिर्णयः नानाबलानि कोटचक्रम् अर्घकाण्डम् घातचक्रं घातचक्रादि सेवाचक्रम् नानाबलानि त्रैलोक्यविजयविद्या सङ्ग्रामविजयविद्या नक्षत्रचक्रं महामारीविद्या षट्कर्माणि षष्टिसंवत्सराः वश्यादियोगाः षट्त्रिंशत्पदकज्ञानम् मन्त्रौषधादिः कुब्जिकापूजा कुब्जिकापूजा मालिनीनानामन्त्राः अष्टाष्टकदेव्यः त्वरितापूजादिः सङ्ग्रामविजयपूजा लक्षकोटिहोमः मन्वन्तराणि वर्णेतरधर्माः गृहस्थवृत्तिः ब्रह्मचर्याश्रमधर्मः विवाहः आचारः द्रव्यशुद्धिः शावाशौचादिः स्रावाद्याशौचं असंस्कृतादिशौचं वानप्रस्थाश्रमः यतिधर्मः धर्मशास्त्रकथनं श्राद्धकल्पकथनं नवग्रहहोमः नानाधर्माः वर्णधर्मादिकथनं अयुतलक्षकोटिहोमाः महापातकादिकथनम् प्रायश्चित्तानि प्रायश्चित्तानि प्रायश्चित्तानि सर्वपापप्रायश्चित्तानि प्रायश्चित्तं प्रायश्चित्तानि व्रतपरिभाषा प्रतिपद्व्रतानि द्वितीयाव्रतानि तृतीयाव्रतानि चतुर्थीव्रतानि पञ्चमीव्रतानि सप्तमीव्रतानि षष्ठीव्रतानि सप्तमीव्रतानि जयन्त्यष्टमीव्रताणी अष्टमीव्रतानि नवमीव्रतानि दशमीव्रतानि एकादशीव्रताणी नानाद्वादशीव्रतानि श्रवणद्वादशीव्रतम् अखण्डद्वादशीव्रतं त्रयोदशी व्रतानि चतुर्दशीव्रतानि शिवरात्रिव्रतम् अशोकपूर्णिमादिव्रतं वारव्रतानि नक्षत्रव्रतानि दिवसव्रतानि मासव्रतानि नानाव्रतानि दीपदानव्रतं नवव्यूहार्चनं पुष्पाध्यायकथनं नरकस्वरूपम् मासोपवासव्रतं भीष्मपञ्चकव्रतं अगस्त्यार्घ्यदानकथनं कौमुदव्रतं व्रतदानादिसमुच्चयः दानपरिभाषाकथनं महादानानि नानादानानि मेरुदानानि पृथ्वीदानानि मन्त्रमाहात्म्यं सन्ध्याविधिः गायत्रीनिर्वाणं गायत्रीनिर्वाणं राज्यभिषेकः अभिषेकमन्त्राः सहायसम्पत्तिः अनुजीविवृत्तं दुर्गसम्पत्तिः राजधर्माः स्त्रीरक्षादिकामशास्त्रं राकजधर्मो सामाद्युपायो दण्डप्रणयनं युद्धयात्रा स्वप्नाध्यायः शकुनानि शकुनानि शकुनानि यात्रामण्डलचिन्तादिः षाड्गुण्यम् प्रात्यहिकराजकर्म रणदीक्षा श्रीस्तोत्रम् रामोक्तनीतिः राजधर्माः षाड्गुण्यम् सामादिः राजनीतिः पुरुषलक्षणम् स्त्रीलक्षणम् चामरादिलक्षणम् रत्नपरीक्षा वास्तुलक्षणम् पुष्पादिपूजाफलम् धनुर्वेदः धनुर्वेदकथनम् धनुर्वेदकथनम् धनुर्वेदकथनम् व्यवहारकथनम् व्यवहारकथनम् दिव्यानि प्रमाणानि दायविभागकथनम् सीमाविवादादिनिर्णयः वाक्पारुष्यादिप्रकरणम् ऋग्विधानम् यजुर्विधानम् सामविधानम् अथर्ववविधानम् उत्पातशान्तिः देवपूजावैश्वदेवबलिः दिक्पालादिस्नानम् विनायकस्नानम् माहेश्वरस्नानलक्षकोटिहोमादयः नीराजनाविधिः छत्रादिमन्त्रादयः विष्णुपञ्जरम् वेदशाखादिकीर्तनम् दानादिमाहात्म्यम् सूर्य्यवंशकीर्त्तनम् सोमवंशवर्णनम् यदुवंशवर्णनम् द्वादशसङ्ग्रामाः राजवंशवर्णनम् पुरुवंशवर्णनम् सिद्धौषधानि सर्वरोगहराण्यौषधानि रसादिलक्षणम् वृक्षायुर्वेदः नानारोगहराण्यौषधानि मन्त्ररूपौषधकथनम् मृतसञ्जीवनीकरसिद्धयोगः कल्पसागरः गजचिकित्सा अछश्ववाहनसारः अश्वचिकित्सा अश्वशान्तिः गजशान्तिः शान्त्यायुर्वेदः मन्त्रपरिभाषा नागलक्षणानि दष्टचिकित्सा पञ्चाह्गरुद्रविधानम् विषहृन्मन्त्रौषधम् गोनसादिचिकित्सा बालग्रहहरबालतन्त्रम् ग्रहहृन्मन्त्रादिकम् सूर्य्यार्च्चनम् नानामन्त्राः अङ्गाक्षरार्च्चनम् पञ्चाक्षरादिपूजामन्त्राः पञ्चपञ्चाशद्विष्णुनामानि नारसिंहादिमन्त्राः त्रैलोक्य मोहननम्त्राः त्रैलोक्यमोहनीलक्ष्म्यादिपूजा त्वरितापूजा त्वरितामन्त्रादिः त्वरितामूलमन्त्रादिः त्वरिताविद्या नानामन्त्राः त्वरिताज्ञानम् ग्रन्थप्रस्तावना नानामन्त्राः सकलादिमन्त्रोद्धारः गणपूजा वागीश्वरीपूजा मण्डलानि अघोरास्त्रादिशान्तिकल्पः पाशुपतशान्तिः षडङ्गान्यघोरास्त्राणि रुद्रशान्तिः अंशकादिः गौर्य्यादिपूजा देवालयमाहात्म्यम् छन्दःसारः छन्दःसारः छन्दःसारः छन्दोजातिनिरूपणम् विषमकथनम् अर्द्धसमनिरूपणम् समवृत्तनिरूपणम् ग्रन्थप्रस्तावना शिक्षानिरूपणम् काव्यादिलक्षणं नाटकनिरूपणम् शृङ्गारादिरसनिरूपणम् रीतिनिरूपणम् नृत्यादावङ्गकर्म्मनिरूपणम् अभिनयादिनिरूपणम् शब्दालङ्काराः अर्थालङ्गाराः शब्दार्थालङ्काराः काव्यगुणविवेकः काव्यदोषविवेकः एकाक्षराभिधानम् व्याकरणम् सन्धिसिद्धरूपम् सुब्विभक्तिसिद्धरूपम् स्त्रीलिङ्गशब्दसिद्धरूपम् नपुंसकशब्दसिद्धरूपम् कारकम् समासः तद्धितम् उणादिसिद्धरूपम् तिङ्विभक्तिसिद्धरूपम् कृत्सिद्धरूपम् स्वर्गपातालादिवर्गाः अव्ययवर्गानाम नानार्थवर्गा भूमिवनौषध्यादिवर्गाः नृब्रह्मक्षत्रविट्शूद्रवर्गाः ब्रह्मवर्गः क्षत्रविट्शूद्रबर्गाः सामान्यनामलिङ्गानि नित्यनैमित्तिकप्राकृतप्रलयाः नित्यनैमित्तिकप्राकृतप्रलयाः आत्यन्तिकलयगर्भोत्पत्तिनिरूपणम् नरकनिरूपणम् यमनियमाः आसनप्राणायामप्रत्याहाराः ध्यानम् धारणा समाधिः ब्रह्मज्ञानम् ब्रह्मज्ञानम् ब्रह्मज्ञानम् अद्वैतब्रह्मविज्ञानम् गीतासारः यमगीता आग्न्येयपुराणमाहात्म्यम् अध्याय २५८ - वाक्पारुष्यादिप्रकरणम् अग्निपुराणात त्रिदेव – ब्रह्मा, विष्णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे. Tags : agnipuranpuransanskritअग्निपुराणपुराणसंस्कृत वाक्पारुष्यादिप्रकरणम् Translation - भाषांतर अग्निरुवाचसत्यासत्यान्यथा स्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणां ।क्षेपं करोति चेद्दण्ड्यः पणानर्द्धत्रयोदश ॥१॥अभिगन्तास्मि भगिनीम्मातरं वा तवेति च ।शपन्तं दापयेद्राजा पञ्चविशतिकं दमं ॥२॥अर्द्धोऽधमेषु द्विगुणः परस्त्रीषूत्तमेषु च ।दण्डप्रणयनं क्काय्य वर्णजात्युत्तराधरैः ॥३॥प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः ।वर्णानामानुलोम्येन तस्मादेवार्द्धहानितः ॥४॥वाहुग्रीवानेत्रसक्थिविनाशे वाचिके दमः ।शत्यस्ततोऽर्द्धिकः पादनासाकर्णकरादिषु ॥५॥अशक्तस्तु वदन्नेवन्दण्डनीयः पणान् दश ।तथा शक्तः प्रतिभुवं दद्यात् क्षेमाय तस्य तु१ ॥६॥पतनीयकृते क्षएपे दण्डो मध्यमसाहसः ।उपपातकयुक्ते तु दाप्यः प्रथमसाहसं ॥७॥त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः ।मध्यमो ज्ञातिपूगानां प्रथमो ग्रामदेशयोः ॥८॥असाक्षिकहते चिह्नैर्युक्तिभिश्चागमेन च ।द्रष्टव्यो व्यवहारस्तु कूटचिह्नकृताद्भयात् ॥९॥भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः ।अमेध्यपार्ष्णिनिष्ठ्यूतस्पर्शने द्विगुणः स्मृतः ॥१०॥समेष्वेवं परस्त्रीषु द्विगुणस्तूत्तमेषु च ।हीनेष्वर्द्धं दमो मोहमदादिभिरदण्डनम् ॥११॥विप्रपीडाकरं च्छेद्यमङ्गमब्राह्मणस्य तु ।उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्द्धिकः ॥१२॥उद्गूर्णे हस्तपादे तु दशविंशतिकौ दमौ।परस्परन्तु सर्व्वेषां शास्त्रं मध्यमसाहसः ॥१३॥पादकेशांशुककरोल्लुञ्चनेषु पणान् दश ।पीडाकर्षाशुकावेष्टपादाध्यासे शतन्दमः ॥१४॥शोणितेन विना दुःखङ्कुर्वन् काष्ठादिभिर्नरः ।द्वात्रिंशतं पणान्२ दाप्यो द्विगुणं दर्शनेऽसृजः ॥१५॥करपाददतो भङ्गे च्छेदने कर्णनासयोः ।मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा ॥१६॥चेष्टाभोजनवाग्नोधे नेत्रादिप्रतिभेदने ।कन्धराबाहुसक्थ्याञ्च भह्गे मघ्यमसाहसः ॥१७॥एकं घ्नतां बहूनाञ्च यथोक्ताद् द्विगुणा दमाः ।कलहापहृतं देयं दण्डस्तु द्विगुणः स्मृतः ॥१८॥दुःखमुत्पादयेद्यस्तु स समुत्थानजं व्ययम् ।दाप्यो दण्डञ्च यो यस्मिन् कलहे समुदाहृतः ॥१९ ।.तरिकः स्थलजं शुल्कं गृह्णन् दण्ड्यः पणान्दश ।ब्राह्मणप्रातिवेश्यानामेतदेवानिमन्त्रणे ॥२०॥अभिघाते तथा भेदे च्छेदे कुड्यावपातने ।पणान्दाप्यः वञ्चदशविंशतिं तत्त्रयन्तथा ॥२१॥दुःस्वोत्पादिगृहे द्रव्यं क्षिपन् प्राणहरं तथा ।षोड़शाद्यः पणान् दाप्यो द्विपणप्रभृतिः क्रमात् ॥२२॥दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा।दण्डः क्षुद्रपशूनां स्याद्विपणप्रभृतिः क्रमात् ॥२३॥लिङ्गस्य च्छेदने मृत्तौ मध्यमो मूल्यमेव च ।महापशूनामेतेषु स्थानेषु द्विगुणा दमाः ॥२४॥प्ररोहिशाखिनां शाखास्कन्धसर्वविदारणे ।उपजीव्यद्रुमाणान्तु विंशतेर्द्विगुणा दमाः३ ॥२५॥यः साहसङ्कारयति सं दाप्यो द्विगुणन्दमम् ।यस्त्वेवमुक्त्वाहं दाता कारयेत् च चतुर्गुणम् ॥२६॥आर्य्याक्रोशातिक्रमकृद्भ्रातृजायाप्रहारदःसन्दिष्टस्याप्रदाता च समुद्रगृहभेदकः ॥२७॥सामन्तकुलिकादीनामपकारस्य कारकः ।पञ्चाशत्पणिको दण्ड एषामिति विनिश्चयः ॥२८॥स्वच्छन्दविधवागामी विक्रुष्टे नाभिधावकः ।पञ्चाशत्पणिको दण्ड एषामिति विनिश्चयः ॥२९ ।शूद्रः प्रव्रजीतानाञ्च दैवे पैत्र्ये च भोजकः ।अयुक्तं शपथं कुर्व्वन्नयोग्यो योग्यकर्मकृत् ॥३०॥वृषक्षुद्रपशूनाञ्च पुंस्त्वस्य प्रतिघातकृत् ।साधारणस्यापलापो दासीगर्भविनाशकृत् ॥३१॥पितापुत्रस्वसृभ्रातृदम्पत्याचार्य्यशिष्यकाः ।एषामपतितान्योन्यत्यागी च शतदण्डभाक् ॥३२॥वसानस्त्रीन् पणान् दण्ड्यो नेजकस्तु परांशुकम् ।विक्रयावक्रयाधानयाचितेषु पणान् दश ॥३३॥तुलाशासनमानानं कूटकृन्नाणकस्य च ।एभिश्च व्यवहर्त्ता यः स दाप्यो दण्डमुत्तमम् ॥३४॥अकूटं कूटकं ब्रते कूटं यश्चाप्यकूटकम् ।स नाणकपरीक्षी तु दाप्यः प्रथमसाहसम् ॥३५॥भिषङ्मिथ्याचरन् दाप्यस्तिर्य्यक्षु प्रथमं दमम् ।मानुषे मध्यमं राजमानुषेषूत्तमन्तथा ॥३६॥अबध्यं यश्च बध्नाति बध्यं यश्च प्रमुञ्चति ।अप्राप्तव्यवहारञ्च स दाप्यो दममुत्तमम् ॥३७॥मानेन तुलया वापि योंऽशमष्टमकं हरेत् ।द्वाविंशतिपणान् दाप्यो वृद्धौ हानौ च कल्पितम् ॥३८॥भेषजस्नेहलवणस्नेगन्धधान्यगुड़ादिषु ।पण्येषु प्रक्षिपन् हीनं पणान्दाप्यस्तु षोडश ॥३९॥सम्भूय कुर्व्वतामर्घं सबाधं कारुशिल्पिनां ।अर्थस्य ह्रासं वृद्धिं वा सहस्रो दण्ड उच्यते ॥४०॥राजनि स्थाप्यते योऽर्थः प्रत्यहं तेन विक्रयः ।क्रयो वा निस्रवस्तस्माद्वणिजां लाभकृत् स्मृतः ॥४१॥स्वदेशपण्ये तु शतं वणिग् गृह्णीत पञ्चकं ।दशकं पारदेश्ये तु यः सद्यः क्रयविक्रयी ॥४२॥पण्यस्योपरि संस्थाप्य व्ययं पण्यसमुद्भवं ।अर्थोंऽनुग्रहकृत् कार्य्यः क्रेतुर्विक्रेतुरेव च ॥४३॥गृहीतमूल्यं यः पण्यं क्रेतुर्नैव प्रयच्छति ।सोदयन्तस्य दाप्योऽसौ दिग्लाभं वा दिगागते ॥४४॥विक्रोतमपि विक्रेयं पूर्वे क्रेतर्य्यगृह्णति ।हानिश्चेत् क्रेतृदोषेण क्रेतुरेव हि सा भवेत् ॥४५॥राजदैवोपघातेन पण्ये दोषमुपागते ।हानिर्विक्रेतुरेवासौ याचितस्याप्रयच्छतः ॥४६॥अन्यहस्ते च विक्रीतं दुष्टं वा दुष्टवद्यदि ।विक्रीनीते दमस्तत्र तन्मूल्यादद्विगुणो भवेत् ॥४७॥क्षयं वृद्धिञ्च बणिजापण्यानामविजानता ।क्रीत्वा नानुशयः कार्य्यः कुर्वन् षड्भागदण्डभाक् ॥४८॥समवायेन वणिजां लाभार्थं कर्म कुर्वतां ।लाभालाभौ यथा द्रव्यं यथा वा संविदा कृतौ ॥४९॥प्रतिपिद्धमनादिष्टं प्रमादाद्यच्च नाशितं ।स तद्दद्याद् विप्लवाच्च रक्षइताद्दसमांशभाक् ॥५०॥अर्थप्रक्षएपणाद्विंशं भागं शुल्कं नृपो हरेत् ।व्यासिद्धं राजयोग्यञ्च विक्रीतं राजगामि तत् ॥५१॥मित्थ्या वदन् परीमाणं शुल्कस्थानादपक्रमम् ।दाप्यस्त्वष्टगुणं यश्च सव्याजक्रयविक्रयी ॥५२॥देशान्तरगते प्रेते द्रव्यं दायादबान्धवाः ।ज्ञातयो वा हरेयुस्तदागतास्तैर्विना नृपः ॥५३॥जिह्मं त्यजेयुर्निर्लोभमशक्तोऽन्येन कारयेत् ।अनेन विधिराख्यात ऋत्विक्कर्षककर्मिणां ॥५४॥ग्राहकैर्गृह्यते चौरो लोप्त्रेणाथ पदेन वा ।पूर्वकर्मापराधी वा तथैवाशुद्धवासकः ॥५५॥अन्येपि शङ्कया ग्राह्य जातिनामादिनिह्नवैः ।द्यूतस्त्रीपानशक्ताश्च शुष्कभिन्नमुखस्वराः ॥५६॥परद्रव्यगृहाणाञ्च पृच्छका गूढ़चारिणः ।निराया व्ययवन्तश्च विनष्टद्रव्यविक्रयाः ॥५७॥गृहीतः शङ्कया चौर्य्येनाम्नानञ्चेद्विशोधयेत् ।दापयित्वा हृतं द्रव्यं चोरदण्डेन दण्डयेत् ॥५८॥चौरं प्रदाप्यापहृतं घातयेद्विविधैर्बधैः ।सचिह्नं ब्राह्मणं कृत्वा स्वराष्ट्राद्विप्रवासयेत् ॥५९॥घातितेऽपहृते दोषो ग्रामभर्त्तुरमिर्गते ।म्वसीम्नि दद्याद्ग्रामस्तु पदं वा यत्र गच्छति ॥६०॥पञ्चग्रामी वहिः क्रोशाद्दशग्राम्यऽथ वा पुनः ।वन्दिग्राहांस्तथा वाजिकञ्जराणाञ्च हारिणः ॥६१॥प्रसह्य घातिश्चैव शूलमारोपयेन्नरान् ।उत्क्षेपकग्रन्थिभेदौ करसन्दंशहीतकौ ॥६२॥कार्य्यौ द्वितीयापराधे करपादैकहीनकौ ।भक्तावकाशाग्न्युदकमन्त्रोपकरणव्ययान् ॥६३॥दत्त्वा चौरस्य हन्तुर्वा जानतो दम उत्तमः ।शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः ॥६४॥उत्तमो वाऽधमो वापि पुरुषस्त्रीप्रमापणे ।शिलां बद्ध्बा क्षिपेदप्सु नरघ्नीं विषदां स्त्रियं ॥६५॥विषाग्निदां निजगुरुनिजापत्यप्रमापणीं ।विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रमापयेत् ॥६६॥क्षेत्रवेश्मवनग्रामविवीतखलदाहकाः ।राजपत्न्यभिऽगामी च दग्धव्यास्तु कटाग्निना ॥६७॥पुमान् संग्रहणे ग्राह्यः केशाकेशिपरस्त्रियाः ।स्वजातावुत्तमो दण्ड आनुलोम्ये तु मध्यमः ॥६८॥प्रातिलोम्ये बधः पुंसां नार्य्याः कर्णावकर्त्तनम् ।नीवीस्तनप्रावरणनाभिकेशावमर्द्दनम् ॥६९॥अदेशकालसम्भाषं सहावस्थानमेव च ।स्त्री निषेधे शतं दद्याद् द्विशतन्तु दमं पुमान् ॥७०॥प्रतिषेधे तयोर्दण्डो यथा संग्रहणे तथा ।पशून् गच्छञ्छतं दाप्यो हीनां स्त्रीं गाश्च मध्यमम् ॥७१॥अवरुद्धासु दासीषु भुजिष्यासु तथैव च ।गम्यास्वपि पूमान्दाप्यः पञ्चाशत् पणिकन्दमम् ॥७२॥प्रसह्य दास्यबिगमे दण्डो दशपणः स्मृतः ।कुबन्धेनाङ्क्य गमयेदन्त्याप्रव्रजितागमे ॥७३॥न्यूनं वाप्यधिकं वापि लिखेद् यो राजशासनम् ।कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी ॥७४॥अभक्षैर्दूषयन् विप्रं दण्ड उत्तमसाहसम् ।कूटस्वर्णव्यवहारी विमांसस्य च विक्रयी ॥७५॥अङ्गहीनश्च कर्त्तव्यो दाप्यश्चोत्तमसाहसं ।शक्तो ह्यमोक्षयन् स्वामी दंष्ट्रिणः श्रृङ्गिणस्तथा ॥७६॥प्रथमं साहसं दद्याद्विक्रूष्टे द्विगुणं तथा ।अचौरञ्चौरेऽभिवदन् दाप्यः पञ्चशतं दमं ॥७७॥राज्ञोऽनिष्टप्रवक्तारं तस्यैवाक्रोशकं तथा ।मृताङ्गलग्नविक्रेतुर्गुरोस्ताड़यितुस्तथा ॥७८॥तन्मन्त्रस्य च भेत्तारं छित्त्वा जिह्वां प्रवासयेत् ।राजयानासनारोढुर्दण्डो मध्यमसाहसः ॥७९ ।.द्विनेत्रभेदिनो राजद्विष्टादेशकृतस्तथा ।विप्रत्वेन च शूद्रस्य जीवतोऽष्टशतो दमः ॥८०॥यो मन्येताजितोऽस्मीति न्याये नाभिपराजितः ।तमायान्तं पुनर्ज्जित्वा दण्डयेद् द्विगुणं दमं ॥८१॥राज्ञाऽन्यायेन यो दण्डा गृहीतो वरुणायतं ।निवेद्य दद्याद्विप्रेभ्यः स्वयं त्रिशद्गुणीकृतं ॥८२॥धर्म्मश्चार्थश्च कीत्तिश्च लोकपङ्क्तिरुपग्रहः ।प्रजाभ्यो बहुमानञ्च स्वर्गस्थानञ्च शाश्वत्म् ॥८३॥पश्यतो व्यवहारांश्च गुणाः स्युः सप्त भूपतेः ।इत्यादिमहापुराणे आग्नेये वाक्पारुष्यादिप्रकरणं नामाष्टपञ्चाशदधिकद्विशततमोऽध्यायः॥ N/A References : N/A Last Updated : September 20, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP