संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|अग्निपुराण| अधिवासनविधिः अग्निपुराण महत्व ग्रन्थप्रस्तावना मत्स्यावतारवर्णनम् कूर्मावतारवर्णनम् वराहाद्यवतारवर्णनम् श्रीरामावतारवर्णनम् अयोध्याकाण्डवर्णनं आरण्यककाण्डवर्णनं किष्किन्धाकाण्डर्णनं सुन्दरकाण्डवर्णनं युद्धकाण्डवर्णनं उत्तरकाण्डवर्णनं श्रीहरिवंशवर्णनम् कुरुपाण्डवोत्पच्यादिकथनम् कुरुपाण्डवसङ्ग्रामवर्णनम् पाण्डवचरितवर्णनम् बुद्धाद्यतारकथनम् सृष्टिविषयकवर्णनम् स्वायम्भुववंशवर्णनम् कश्यपवंशवर्णनम् सर्गविषयकवर्णनम् सामान्यपूजाकथनम् स्नानविधिकथनम् पूजाविधिकथनम् वासुदेवादिमन्त्रनिरूपणम् मुद्रालक्षणकथनम् अभिषेकविधानम् सर्वतोभद्रमण्डलकथनम् मण्डलविधिः मार्जनविधानम् संस्कारकथनं पवित्रारोहणविधानम् होमादिविधिः पवित्राधिवासनादिविधिः पवित्राशेपणविधानम् सर्वदेवपवित्राशेहणविधिः देवालयनिर्म्माणफलम् भृपरिग्रहविधानम् अर्घ्यदानविधानम् शिलादिन्यासविधानम् प्रासादलक्षणकथनम् प्रासाददेवतास्थापनम् भूतशान्त्यादिकथनम् वासुदेवादिप्रातिमालक्षणविधिः पिण्डिकालक्षणकथनम् शालग्रामादिमूर्त्तिलक्षणकथनम् शालग्रामादिपूजनकथनम् चतुर्विंशतिमूर्त्तिंस्तोत्रकथनम् मत्स्यादिसक्षणवर्णनम् देवीप्रतिमालक्षणकथनम् सूर्यादिप्रतिमालक्षणम् देवीप्रतिमालक्षणम् लिङ्गलक्षणम् लिङ्गमानादिकथनम् पिण्डिकालक्षणकथनम् दिक्पालयागकथनम् कुम्भाधिवासविधिः स्नानादिविधिः अधिवासकथनम् वासुदेवप्रतिष्ठादिविधिः ध्वजारोहणं लक्ष्मीप्रतिष्ठाविधिः सुदर्शनचक्रादिप्रतिष्ठाकथनं कूपादिप्रतिष्ठाकथनं सभास्थापनकथनं साधारणप्रतिष्ठाविधानं जीर्णोद्धारविधानं यात्रोत्सवविधिकथनं स्नानविधानं अध्याय ७० -पादपारामप्रतिष्ठाकथनं अग्नि पुराण अग्नि पुराण सुदर्शनचक्रादिप्रतिष्ठाकथनम् अग्निस्थापनादिप्रतिष्ठाकथनम् अग्निस्थापनादिप्रतिष्ठाकथनम् कपिलादिपूजाविधानम् पवित्रारोहणकथनम् पवित्रारोहणविधि दमनकारोहणावेधिः समयदीक्षाविधानम् संस्कारदीक्षाकथनम् निर्वाणादीक्षाकथनम् निर्वाणदीक्षाविधानम् प्रतिष्ठाकलाशोधनोक्तिः विद्याविशोधनविधानम् शान्तिशोधनकथनम् निर्वाणदीक्षाकथनम् एकतत्त्वदीक्षाकथनम् अभिषेकादिकथनम् विविधमन्त्रादिकथनम् प्रतिष्ठाविधिकथनम् वास्तुपूजादिविधानम् शिलाविन्यासविधानम् प्रतिष्ठासामग्रीविधानम् अधिवासनविधिः शिवप्रतिष्ठाकथनम् गौरीप्रतिष्ठाकथनम् अध्याय ९९- सूर्यप्रतिष्ठाकथनं द्वारप्रतिष्ठा प्रासादप्रतिष्ठा ध्वजारोपणं जीर्णोद्धारः सामान्यप्रासादलक्षणं गृहादिवास्तुर्नामः नगरादिवास्तुः स्वायम्भुवसर्गः भुवनकोषः तीर्थमाहात्म्यम् गङ्गामाहात्म्यं प्रयागमाहात्म्यं वाराणसीमाहात्म्यम् नर्मदादिमाहात्म्यम् गयामाहात्म्यम् गयायात्राविधिः गयायात्राविधिः श्राद्धकल्पः भारतवर्षं महाद्वीपादि भुवनकोषः ज्योतिःशास्त्रं कालगणनं युद्धजयार्णवीयनानायोगाः युद्धजयार्णवीयज्योतिःशास्त्रसारः युद्धजयार्णवीयनानाचक्राणि नक्षत्रनिर्णयः नानाबलानि कोटचक्रम् अर्घकाण्डम् घातचक्रं घातचक्रादि सेवाचक्रम् नानाबलानि त्रैलोक्यविजयविद्या सङ्ग्रामविजयविद्या नक्षत्रचक्रं महामारीविद्या षट्कर्माणि षष्टिसंवत्सराः वश्यादियोगाः षट्त्रिंशत्पदकज्ञानम् मन्त्रौषधादिः कुब्जिकापूजा कुब्जिकापूजा मालिनीनानामन्त्राः अष्टाष्टकदेव्यः त्वरितापूजादिः सङ्ग्रामविजयपूजा लक्षकोटिहोमः मन्वन्तराणि वर्णेतरधर्माः गृहस्थवृत्तिः ब्रह्मचर्याश्रमधर्मः विवाहः आचारः द्रव्यशुद्धिः शावाशौचादिः स्रावाद्याशौचं असंस्कृतादिशौचं वानप्रस्थाश्रमः यतिधर्मः धर्मशास्त्रकथनं श्राद्धकल्पकथनं नवग्रहहोमः नानाधर्माः वर्णधर्मादिकथनं अयुतलक्षकोटिहोमाः महापातकादिकथनम् प्रायश्चित्तानि प्रायश्चित्तानि प्रायश्चित्तानि सर्वपापप्रायश्चित्तानि प्रायश्चित्तं प्रायश्चित्तानि व्रतपरिभाषा प्रतिपद्व्रतानि द्वितीयाव्रतानि तृतीयाव्रतानि चतुर्थीव्रतानि पञ्चमीव्रतानि सप्तमीव्रतानि षष्ठीव्रतानि सप्तमीव्रतानि जयन्त्यष्टमीव्रताणी अष्टमीव्रतानि नवमीव्रतानि दशमीव्रतानि एकादशीव्रताणी नानाद्वादशीव्रतानि श्रवणद्वादशीव्रतम् अखण्डद्वादशीव्रतं त्रयोदशी व्रतानि चतुर्दशीव्रतानि शिवरात्रिव्रतम् अशोकपूर्णिमादिव्रतं वारव्रतानि नक्षत्रव्रतानि दिवसव्रतानि मासव्रतानि नानाव्रतानि दीपदानव्रतं नवव्यूहार्चनं पुष्पाध्यायकथनं नरकस्वरूपम् मासोपवासव्रतं भीष्मपञ्चकव्रतं अगस्त्यार्घ्यदानकथनं कौमुदव्रतं व्रतदानादिसमुच्चयः दानपरिभाषाकथनं महादानानि नानादानानि मेरुदानानि पृथ्वीदानानि मन्त्रमाहात्म्यं सन्ध्याविधिः गायत्रीनिर्वाणं गायत्रीनिर्वाणं राज्यभिषेकः अभिषेकमन्त्राः सहायसम्पत्तिः अनुजीविवृत्तं दुर्गसम्पत्तिः राजधर्माः स्त्रीरक्षादिकामशास्त्रं राकजधर्मो सामाद्युपायो दण्डप्रणयनं युद्धयात्रा स्वप्नाध्यायः शकुनानि शकुनानि शकुनानि यात्रामण्डलचिन्तादिः षाड्गुण्यम् प्रात्यहिकराजकर्म रणदीक्षा श्रीस्तोत्रम् रामोक्तनीतिः राजधर्माः षाड्गुण्यम् सामादिः राजनीतिः पुरुषलक्षणम् स्त्रीलक्षणम् चामरादिलक्षणम् रत्नपरीक्षा वास्तुलक्षणम् पुष्पादिपूजाफलम् धनुर्वेदः धनुर्वेदकथनम् धनुर्वेदकथनम् धनुर्वेदकथनम् व्यवहारकथनम् व्यवहारकथनम् दिव्यानि प्रमाणानि दायविभागकथनम् सीमाविवादादिनिर्णयः वाक्पारुष्यादिप्रकरणम् ऋग्विधानम् यजुर्विधानम् सामविधानम् अथर्ववविधानम् उत्पातशान्तिः देवपूजावैश्वदेवबलिः दिक्पालादिस्नानम् विनायकस्नानम् माहेश्वरस्नानलक्षकोटिहोमादयः नीराजनाविधिः छत्रादिमन्त्रादयः विष्णुपञ्जरम् वेदशाखादिकीर्तनम् दानादिमाहात्म्यम् सूर्य्यवंशकीर्त्तनम् सोमवंशवर्णनम् यदुवंशवर्णनम् द्वादशसङ्ग्रामाः राजवंशवर्णनम् पुरुवंशवर्णनम् सिद्धौषधानि सर्वरोगहराण्यौषधानि रसादिलक्षणम् वृक्षायुर्वेदः नानारोगहराण्यौषधानि मन्त्ररूपौषधकथनम् मृतसञ्जीवनीकरसिद्धयोगः कल्पसागरः गजचिकित्सा अछश्ववाहनसारः अश्वचिकित्सा अश्वशान्तिः गजशान्तिः शान्त्यायुर्वेदः मन्त्रपरिभाषा नागलक्षणानि दष्टचिकित्सा पञ्चाह्गरुद्रविधानम् विषहृन्मन्त्रौषधम् गोनसादिचिकित्सा बालग्रहहरबालतन्त्रम् ग्रहहृन्मन्त्रादिकम् सूर्य्यार्च्चनम् नानामन्त्राः अङ्गाक्षरार्च्चनम् पञ्चाक्षरादिपूजामन्त्राः पञ्चपञ्चाशद्विष्णुनामानि नारसिंहादिमन्त्राः त्रैलोक्य मोहननम्त्राः त्रैलोक्यमोहनीलक्ष्म्यादिपूजा त्वरितापूजा त्वरितामन्त्रादिः त्वरितामूलमन्त्रादिः त्वरिताविद्या नानामन्त्राः त्वरिताज्ञानम् ग्रन्थप्रस्तावना नानामन्त्राः सकलादिमन्त्रोद्धारः गणपूजा वागीश्वरीपूजा मण्डलानि अघोरास्त्रादिशान्तिकल्पः पाशुपतशान्तिः षडङ्गान्यघोरास्त्राणि रुद्रशान्तिः अंशकादिः गौर्य्यादिपूजा देवालयमाहात्म्यम् छन्दःसारः छन्दःसारः छन्दःसारः छन्दोजातिनिरूपणम् विषमकथनम् अर्द्धसमनिरूपणम् समवृत्तनिरूपणम् ग्रन्थप्रस्तावना शिक्षानिरूपणम् काव्यादिलक्षणं नाटकनिरूपणम् शृङ्गारादिरसनिरूपणम् रीतिनिरूपणम् नृत्यादावङ्गकर्म्मनिरूपणम् अभिनयादिनिरूपणम् शब्दालङ्काराः अर्थालङ्गाराः शब्दार्थालङ्काराः काव्यगुणविवेकः काव्यदोषविवेकः एकाक्षराभिधानम् व्याकरणम् सन्धिसिद्धरूपम् सुब्विभक्तिसिद्धरूपम् स्त्रीलिङ्गशब्दसिद्धरूपम् नपुंसकशब्दसिद्धरूपम् कारकम् समासः तद्धितम् उणादिसिद्धरूपम् तिङ्विभक्तिसिद्धरूपम् कृत्सिद्धरूपम् स्वर्गपातालादिवर्गाः अव्ययवर्गानाम नानार्थवर्गा भूमिवनौषध्यादिवर्गाः नृब्रह्मक्षत्रविट्शूद्रवर्गाः ब्रह्मवर्गः क्षत्रविट्शूद्रबर्गाः सामान्यनामलिङ्गानि नित्यनैमित्तिकप्राकृतप्रलयाः नित्यनैमित्तिकप्राकृतप्रलयाः आत्यन्तिकलयगर्भोत्पत्तिनिरूपणम् नरकनिरूपणम् यमनियमाः आसनप्राणायामप्रत्याहाराः ध्यानम् धारणा समाधिः ब्रह्मज्ञानम् ब्रह्मज्ञानम् ब्रह्मज्ञानम् अद्वैतब्रह्मविज्ञानम् गीतासारः यमगीता आग्न्येयपुराणमाहात्म्यम् अध्याय ९६ - अधिवासनविधिः अग्निपुराणात त्रिदेव – ब्रह्मा, विष्णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे. Tags : agnipuranpuransanskritअग्निपुराणपुराणसंस्कृत अधिवासनविधिः Translation - भाषांतर ईश्वर उवाचस्नात्वा नित्यद्वयं कृत्वा प्रणवार्थकरो गुरुः ।सहायैर्मूर्त्तिपैर्विप्रैः सह गच्छेन्मशालयं ॥१॥शान्त्यादितोरणांस्तत्र पूर्ववत् पूजयेत् क्रमात् ।प्रदक्षिणक्रमादेषां शाखायां द्वारपालकान् ॥२॥प्राचि नन्दिमहाकालौ याम्ये भृङ्गिविनायकौ ।वारुणे वृषभक्कन्दौ देबीचण्डौ तथोत्तरे ॥३॥तच्छाखामूलदेशस्थौ प्रशान्तशिशिरौ घटौ ।पर्ज्जन्याशोकनामानौ भूतं सञ्जीवनामृतौ ॥४॥धनदश्रीप्रंदौ द्वौ द्वौ पूजयेदनुपूर्वशः ।स्वनामभिश्चतुर्थ्यन्तैः प्रणवादिनमोन्तगैः ॥५॥लोकग्रहवसुद्वाः स्थस्रवन्तीनां द्वयं द्वयं ।भानुत्रयं युगं वेदो लक्ष्मीर्गणपतिस्तथा ॥६॥इति देवा मखागारे तिष्ठन्ति प्रतितोरणं ।विघ्नसङ्घापनोदाय क्रतोः संरक्षणाय च ॥७॥वज्रं शक्तिं तथा दण्डं खड्गं पाशं ध्वजं गदां ।त्रिशूलं चक्रमम्भोजम्पताकास्वर्च्चयेत् क्रमात् ॥८॥ओ ह्रूं फट् नमः । ओं ह्रूं फट् द्वाः स्थशक्तये ह्रूं फट् नमः इत्यादिमन्त्रैः ।कुमुदः कुमुदाक्षश्च पुण्डरीकोथ वामनः ।शङ्कुकर्णः सर्वनेत्रः सुमुख सुप्रतिष्ठितः ॥९॥ध्वजाष्टदेवताः पूज्याः पूर्वादौ भूतकोटिभिः ।ओं कौं कुमुदाय नम इत्यादिमन्त्रैः ॥१०॥हेतुकं त्रिपुरघ्नञ्च शक्त्याख्यं यमज्ह्वकं ।कालं करालिनं षष्ठमेकाङ्घ्निम्भीममष्टकं ॥११॥तथैव पूजयेद् दिक्षु क्षेत्रपालाननुक्रमात् ।वलिभिः कुसुमैर्धूपैः सन्तुष्टान् परिभावयेत् ॥१२॥कम्बलास्तृतेषु वर्णेषु वंशस्थूणास्वनुक्रमात् ।पञ्च क्षित्यादितत्त्वानि सद्योजातादिभिर्यजेत् ॥१३॥सदाशिवपदव्यापि मण्डपं धाम शाङ्करं ।पताकाशक्तिसंयुक्तं तत्त्वदृष्ट्यावलोकयेत् ॥१४॥दिव्यान्तरिक्षभूमिष्ठविघ्नानुत्सार्य्य पूर्ववत् ।प्रविशेत् पश्चिमद्वारा शेषद्वाराणि दर्शयेत् ॥१५॥प्रदक्षिणक्रमाद्गत्वा निविष्टो वेदिदक्षिणे ।उत्तराभिमुखः कुर्य्याद् भूतशुद्धिं यथा पुरा ॥१६॥अन्तर्य्यागं विशेषार्घ्यं मन्त्रद्रव्यादिशोधनं ।कुर्व्वींत आत्मनः पूजां पञ्चगव्यादि पूर्ववत् ॥१७ ।साधारङ्कलसन्तस्मिन् विन्यसेत्तदनन्तरं ।विशेषाच्छिचवतत्त्वाय तत्त्वत्रयमनुक्रमात् ॥१८॥ललाटस्कन्धपादान्तं शिवविद्यात्मकं परं ।रुद्रनारायणब्रह्मदैवतं निजसञ्चरैः ॥१९॥ओं हं हां । मूर्त्तीस्तदीश्वरंस्तत्र पूर्ववद्विनिवेशयेत् ।तद्व्यापकं शिवं साङ्गं शिवहस्तञ्च मूर्द्धनि ॥२०॥ब्रह्मरन्ध्रप्रविष्टेन तेजसा बाह्यसान्तरं ।तमः पटलमाधूय प्रद्योतितदिगन्तरं ॥२१॥आत्मानं मूर्त्तिपैः सार्द्वं स्रग्वस्त्रकुसुमादिभिः ।भूषयित्वा शिवोस्मीति ध्यात्वा बोधासिमुद्धिरेत् ॥२२॥चतुष्पदान्तसंस्कारैः संस्कुर्य्यान्मशमण्डपं ।विक्षिप्य विकिरादीनि कुशकूर्चोपसंहरेत् ॥२३॥आसनीकृत्य वर्द्धन्यां वास्त्वादीन् पूर्ववद्यजेत् ।शिवकुम्भास्त्रवर्द्धन्यौ पूजयेच्च स्थिरासने ॥२४॥स्वदिक्षु कलशारूढांल्लोकपालाननुक्रमात् ।सहस्त्रनयनं शक्रं वज्रपाणिं विभावयेत् ॥२५॥ऐरावतगजारूढं स्वर्णवण किरीटिनं ।सहस्रनयनं शक्रं वज्रपाणिं विभावयेत् ॥२६॥सप्तार्च्चिषं च विभ्राणमक्षमालां कमण्डलुं ।ज्वालामालाकुलं रक्तं शक्तिहस्तमजासनं ॥२७॥महिषस्थं दण्डहस्तं यमं कालानलं स्मरेत् ।रक्तनेत्रं खरारूढं खड्गहस्तञ्च नैर्ऋृतं ॥२८॥वरुणं मकरे श्वेतं नागपाशधरं स्मरेत् ।वायुं च हरिणे नीलं कुवेरं मेघसंस्थितं ॥२९॥त्रिशूलिनं वृषे चेशं कूर्म्मेनन्तन्तु चक्रिणं ।ब्रह्माणं हंसगं ध्यायेच्चतुर्वक्त्रं चतुर्भुजं ॥३०॥स्तम्बमूलेषु कुम्भेषु वेद्यां धर्मादिकान् यजेत् ।दिक्षु कुम्भेष्वनन्तादीन् पूजयन्त्यपि केचन ॥३१॥शिवाज्ञां श्रावयेत् कुम्भं भ्रामयेदात्मपृष्ठगं ।पूर्ववत् स्थापयेदादौ कुम्भं तदनु वर्द्धनीं ॥३२॥शिवं स्थिरासनं कुम्भे शस्त्रार्थंञ्च ध्रुवासनं ।पूजयित्वा यथापूर्वं स्पृशेदुद्भवमुद्रया ॥३३॥निजयागं जगन्नाथ रक्ष भक्तानुकम्पया ।एभिः संश्राव्य रक्षार्थं कुम्भे खड्गं निवेशयेत् ॥३४॥दीक्षास्थापनयोः कुम्भे स्थण्डिले मण्डलेऽथवा ।मण्डलेभ्यर्च्य देवेशं व्रजेद्वै कुण्डसन्निधौ ॥३५॥कुण्डनाभिं पुरस्कृत्य निविष्टा मूर्त्तिदारिणः ।गुरोरादेशतः कुर्युर्न्निजकुण्डेषु संस्कृतिं ॥३६॥जपेयुर्जापिनः सङ्ख्यं मन्त्रमन्ये तु संहितां ।पठेयुर्ब्राह्मणाः शान्तिं स्वशाखावेदपारगाः ॥३७॥श्रीसूक्तं पावमानीश्च मैत्रकञ्च वृषाकपिं ।ऋग्वेदी पूर्वदिग्भागे सर्वमेतत् समुच्चरेत् ॥३८॥देवव्रतन्तु भारुण्डं ज्यष्ठसाम रथन्तरं ।पुरुषं गीतिमेतानि सामवेदी तु दक्षइणे ॥३९॥रुद्रं पुरुषसूक्तञ्च श्लोकाद्यायं विशेषतः ।ब्रह्मणञ्च यजुर्वेदी पश्चिमायां समुच्चरेत् ॥४०॥नीलरुद्रं तथाथर्वी सूक्ष्मासूक्ष्मन्तथैव च ।उत्तरेऽथर्वशीर्षञ्च तत्परस्तु समुद्धरेत् ॥४१॥आचार्य्यश्चाग्निमुत्पाद्य प्रतिकुण्डंथ प्रदापयेत् ।वह्नेः पूर्वादिकान् भागान् पूर्वकुण्डदितः क्रमात् ॥४२॥धूपदीपचरूणाञ्च ददीताग्निं सम्द्धरेत् ।पूववच्छिवमभ्यर्च्य शिवाग्नौ मन्त्रतर्पणं ॥४३॥देशकालादिसम्पत्तौ दुर्न्निमित्तप्रशान्त्ये ।होमङ्कृत्वा तु मन्त्रज्ञः पूर्णा दत्त्वा शुभावहां ॥४४॥पूर्ववच्चरुकं कृत्वा प्रतिकुण्डं निवेदयेत् ।यजमानालङकृतास्तु व्रजेयुः स्नानमण्डपं ॥४५॥भद्रपीठे निधायेशं ताडयित्वावगुण्ठयेत् ।स्नापयेत् पूजयित्वा तु मृदा काषायवारिणा ॥४६॥गोमूत्रैर्गोमयेनापि वारिणा चान्तरान्तरा ।भस्माना गन्धतोयेन फडन्तास्त्रेण वारिणा ॥४७॥देशिको मूर्त्तिपैः सार्द्धं कृत्वा कारणशोधनं ।धर्मजप्तेन सञ्छाद्य पीतवर्णेन वाससा ॥४८॥सम्पूज्य सितपुष्पैश्च नयदुत्तरवेदिकां ।तत्र दत्तासनायाञ्च शय्यायां सन्निवेश्य च ॥४९॥कुङ्कुमालिप्तसूत्रेण विभज्य गुरुरालिखेत् ।शलाकया सुवर्णस्य अक्षिणी शस्त्रकर्मणा ॥५०॥अञ्जयेल्लक्ष्मकृत् पश्चाच्छास्त्रदृष्टेन कर्मणा ।कृतकर्मा चशस्त्रेण लक्ष्मी शिल्पी समुत्तक्षिपेत् ॥५१॥त्र्यंशादर्द्धोथ पादार्द्धादर्द्धाया अर्द्धतोथवा ।सर्वकामप्रसिद्ध्यर्थं शुभं लक्ष्मावतारणं ॥५२॥लिङ्गदीर्घविकारांशे त्रिभक्ते भागवर्णनात् ।विस्तारो लक्ष्म देहस्य भवेल्लिङ्गस्य सर्वतः ॥५३॥यवस्य नवभक्तस्य भागैरष्टाभिरावृता हस्तिके ।लक्ष्मरेखा च गाम्भीर्य्याद् विस्तरादपि ॥५४॥एवमष्टांशवृद्ध्या तु लिङ्गे सार्द्धकरादिके ।भवेदष्टयवा पृथ्वी गम्भीरात्र च हास्तिके ॥५५॥एवमष्टांशवृद्ध्या तु लिङ्गे सार्द्धकरादिके ।भवेदष्टयवा पृथ्वी गम्भीरन्नवहास्तिके ॥५६॥शाम्भवेषु च लिङ्गेषु पादवृद्धेषु सर्वतः ।लक्ष्म देहस्य विष्कम्भो भवेद्वै यववर्द्धनात् ॥५७ ।गम्भीरत्वपृथुत्वाभ्यां रेशापि त्रयंशवृद्धितः ।सर्वेषु च भवेत् सूक्ष्मं लिङ्गमस्तकमस्तकं ॥५८॥लक्ष्मक्षेत्रेष्टधाभक्ते मूद्र्ध्नि भागद्वये शुभे ।षड्भागपरिवर्त्तेन मुक्त्वा भागद्वयन्त्वधः ॥५९॥रेखात्रयेण सम्बद्धं कारयेत् पृष्ठदेशगं ।रत्नजे लक्षणोद्धारो यवौ हेमसमुद्भवे ॥६०॥स्वरूपं लक्षणन्तेषां प्रभा रत्नेषु निर्मला ।नयनोन्मीलनं वक्त्रे सान्निध्याय च लक्ष्म तत् ॥६१॥लक्ष्मणोद्धाररेखाञ्च घृतेन मधुना तथा ।मृत्युञ्जयेन सम्पूज्य शिल्पिदोषनिवृत्तये ॥६२॥अर्च्चयेच्च तता लिङ्गं स्नापयित्वा मृदादिभिः ।शिल्पिनन्तोषयित्वा तु दद्याद् गां गुरवो ततः ॥६३॥लिङ्गं धूपादिभिः प्राच्यं गायेयुर्भर्तृगास्त्रियः ।सव्येन चापसव्येन सूत्रेणाथ कुशेन वा ॥६४॥स्मृत्वा च रोचनं दत्वा कुर्यान्निर्मञ्जनादिकं ।गुडलवणधान्याकदानेन विसृजेच्च ताः ॥६५॥गुरुमूर्त्तिधरैः सार्द्धं हृदा वा प्रणवेन वा ।मृत्स्नागोमयगोमूत्रभस्मभिः सलिलान्तरं ॥६६॥स्नापयेत् पञ्चगव्येन पञ्चमृतपुरः सरं ।विरूक्षणं कषायैश्च सर्वौषधिजलेन वा ॥६७॥शुभ्रपुष्पफलस्वर्णरत्न श्रृङ्गयवोदकैः ।तथा धारासहस्रेण दिव्यौषधिजलेन च ॥६८॥तीर्थोदकेन गङ्गेन चन्दनेन च वारिणा ।क्षीरार्णवादिभिः कुम्भैः शिवकुम्भजलेन च ॥६९॥विरूक्षणं विलेपञ्च सुगन्धैश्चन्दनादिभिः ।सम्पूज्य ब्रह्मभिः पुष्पैर्वर्मणा रक्तचीवरैः ॥७०॥रक्तरूपेण नीराज्य रक्षातिलकपूर्वकं ।घृतौघैर्जलदुग्धैश्च कुशाद्यैरर्घ्यसूचितैः ॥७१॥द्रव्यैः स्तुत्यादिबिस्तुष्टमर्चयेत् पुरुषाणुना ।समाचम्य हृदा देवं ब्रूयादुत्थीयतां प्रभो ॥७२॥देवं ब्रह्मारथेनैव क्षिप्रं द्रव्याणि तन्नयेत् ।मण्डपे पश्चिमद्वारे शय्यायां विनिवेशयेत् ॥७३॥शक्त्यादिशक्तिपर्य्यन्ते विन्यसेदासने शुभे ।पश्चिमे पिण्डिकान्तस्यन्यसेद्ब्रह्मशिलान्तदा ॥७४॥शस्त्रमस्त्र शतालब्धनिद्राकुम्भध्रुवासनं ।प्राकल्प्य शिवकोणे च दत्वार्घ्यं हृदयेन तु ॥७५॥उत्थाप्योक्तासने लिङ्गं शिरसा पूर्वमस्तकं ।समारोप्य न्यसेत्तस्मिन् सृष्ट्या धर्मादिनन्दनं ॥७६॥दद्याद्धूपञ्च सम्पूज्य तथा वासांसि वर्मणा ।गृहोपकृतिनैवेद्यं हृदा दद्यात् स्वशक्तितः ॥७७॥घृतक्षौद्रयुतं पात्रमब्यङ्गाय पदान्तिके ।देशिकश्च स्थितस्तत्र षट्त्रिंशत्तत्त्वसञ्चयं ॥७८॥शक्त्यादिभूमिपर्य्यन्तं स्वतत्त्वाधिपसंयुतं ।विन्यस्य पुष्पमालाभिस्त्रिशण्डं परिकल्पयेत् ॥७९॥मायापदेशक्त्यन्तन्तुर्य्याशाष्टांशवर्त्तुलं ।तत्रात्मतत्त्वविद्याख्यं शिवं सृष्टिक्रमेण तु ॥८०॥एकशः प्रतिभागेषु ब्रह्मविष्णुहरधिपान् ।विन्यस्य मूर्त्तिमूर्त्तीशान् पूर्वादिक्रमतो यथा ॥८१॥क्ष्मावह्निर्यजमानार्क्कजलवायुनिशाकरान् ।आकाशमूर्त्तिरूपांस्तान् न्यसेत्तदधिनायकान् ॥८२॥सर्वं पशुपति चोग्रं रुद्रं भवमखेश्वरं ।महादेवञ्च भीमञ्च मन्त्रास्तद्वाचका इमे ॥८३॥लवशषचयसाश्च हकारश्च त्रिमात्रिकः ।प्रणवो हृदयाणुर्वा मूलमन्त्रोऽथवा क्कचित् ॥८४॥पञ्चकुण्डात्मके योगे मूर्त्तीः पञ्चाथवा न्यसेत् ।पृथिवीजलतेजांसि वायुमाकाशमेव च ॥८५॥क्रमात्तदधिपान् पञ्च ब्रह्माणं धरणीधरं ।रुद्रमीशं सदाख्यञ्च सृष्टिन्यायेन मन्त्रवित् ॥८६॥मुमुक्षोर्वा निवृत्ताद्याः अजाताद्यास्तदीश्वराः ।त्रितत्त्वं वाथ न्यसेद्व्याप्त्यात्मकारणं ॥८७॥शुद्धे चात्मनि विद्येशा अशुद्धे लोकनायकाः ।द्रष्टव्या मूर्त्तिपाश्चैव भोगिनो मन्त्रनायकाः ॥८८॥पञ्चविंशत्तथैवाष्टपञ्चत्रीणि यथाक्रमं ।एषान्तत्त्वं तदीशानामिन्द्रादीनां ततो यथा ॥८९॥ओं हां शक्तितत्तवाय नम हत्यादि ।ओं हां शक्तितत्त्वाधिपाय नम इत्यादि ।ओं हां क्ष्मामूर्त्तये नमः ।ओं हां क्ष्मामूर्त्त्यधीशाय शिवाय नम इत्यादि ।ओं हां पृथिवीमूर्त्तये नमः । ओं हां मूर्त्त्यधिपाय ब्रह्मणे नम इत्यादि ।ओं हां शिवतत्त्वाधिपाय रुद्राय नम इत्यादि ।नाभिकन्दात्समुच्चार्य्य घण्टा नादविसर्प्पणं ।ब्रह्मादिकारणत्यागाद् द्वादशान्तसमाश्रइतं ॥९०॥नम्त्रञ्च मनसा भिन्नं प्राप्तानन्दरसोपमं ।द्वादशान्तात्समानीय निष्कलं व्यापकं शिवं ॥९१॥अष्टत्रिशत्कलोपेतं सहस्रकिरणोज्जवलं ।सर्वशक्तिमयं साङ्गं ध्यात्वा लिङ्गे निवेशयेत् ॥९२॥जीवन्यासो भवेदेवं लिङ्गे सर्वार्थसाधकः ।पिण्डिकादिषु तु न्यासः प्रोच्यते साम्प्रतं यथा ॥९३॥पिण्डिकाञ्च कृतस्नानां विलिप्ताञ्चन्दनादिभिः ।सद्वस्त्रैश्च समाच्छाद्य रन्ध्रे च भगलक्षणे ॥९४॥पञ्चरत्नादिसंयुक्तां लिङ्गस्योत्तरतः स्थितां ।लिङ्गवत्कृतवनिन्यासां विधिवत्सम्प्रपूजयेत् ॥९५॥कृतस्नानादिकान्तत्र लिङ्गमूले शिलां न्यसेत् ।कृतस्नानादिसंस्कारं शक्त्यन्तं वृष्भं तथा ॥९६॥प्रणवपूर्वं हुं पूं ह्रीं मध्यादन्यतमेन च ।क्रियाशक्तियुतां पिण्डीं शिलामाधाररूपिणीं ॥९७॥भस्मदर्भतिलैः कुर्य्यात् प्राकारत्रितयन्ततः ।रक्षायै लोकपालांश्च सायुधान्याजयेद्वहिः ॥९८॥ओं हूं ह्रं क्रियाशक्तये नमः । ओं हूं ह्रां हःमहागौरी रुद्रदयिते स्वाहेति च पिण्ड़िकायां ।ओं हां आदारशक्तये नमः । ओं हां वृषभाय नमः ।धारिका दीप्तिमत्युग्रा ज्योत्स्ना चैता बलोत्कटाः ।तथा धात्री विधात्री च न्यसेद्वा पञ्चनायिकाः ॥९९॥वामा ज्येष्ठा क्रिया ज्ञाना बेधा तिस्रोथवा न्यसेत् ।क्रियाज्ञाना तथेच्छा च पूर्ववच्छान्तिमूर्त्तिषु ॥१००॥तमी मोहा क्षमी निष्ठा मृत्युर्मायाभवज्वराःपञ्च चाथ महामोहा घोरा च त्रितयज्वरा ॥१०१॥तिस्रोथवा क्रियाज्ञाना तथा बाधाधिनायिका ।आत्मादित्रिषु तत्त्वेषु तीव्रमूर्त्तिषु विन्यसेत् ॥१०२॥अत्रापि पिण्डिका ब्रह्मशिलादिषु यथाविधि ।गोर्य्यादिसंवरैरैव पूर्ववत् सर्वमाचरेत् ॥१०३॥एवं विधाय विन्यासं गत्वा कुण्डान्तिकं ततः ।कुण्डमध्ये महेशानं मेखलासु महेश्वरं ॥१०४॥क्रियाशक्तिं तथान्यासु नादमोष्ठे च विन्यासेत् ।घटं स्थण्डिलवह्नीशैः नीडीसन्धानकन्तत ॥१०५॥पद्मतन्तुसमां शक्तिमुद्घातेनां समुद्यतां ।विशन्ती सूर्यमार्गेण निः सरन्तीं समुद्गतां ॥१०६॥पुनश्च शून्यमार्गेण विशतीं स्वस्य चिन्तयेत् ।एवं सर्वत्र सन्धेयं मूर्त्तिपैश्च परस्परं ॥१०७॥सम्पूज्य घारिकां शक्तिं कुण्डे सन्तर्प्य च क्रमात् ।तत्त्वतत्त्वेश्वरा मूर्त्तीर्मूर्त्तीशांश्च घृतादिभिः॥१०८॥सम्पूज्य तर्प्पयित्वा तु सन्निधौ संहिताणुभिः ।शतं सहस्रमर्द्धं वा पूर्णया सह होमयेत् ॥१०९॥तत्त्वतत्त्वेश्वरा मूर्त्तिर्मूर्त्तीशांश्च करेणुकान् ।तथा सन्तर्प्य सान्निध्ये जुहुयुर्मूर्त्तिपा अपि ॥११०॥ततो ब्रह्मभिरङ्गैश्च द्रव्यकालानुरोधतः ।सन्तर्प्य शक्तिं कुम्भाम्भः प्रोक्षिते कुशमूलतः ॥१११॥लिङ्गमुलं च संस्पृश्य विष्ण्वन्तादि विशुद्धये ।विधाय पूर्ववत्सर्वं होमसङ्श्याजपादिकम् ॥११२॥एवं संशोध्य ब्रह्मादि विष्ण्वन्तादि विशुद्धये ।विधाय पूर्ववत्सर्वं होमसङ्ख्याजपादिकम् ॥११३॥कुशमध्याग्रयोगेन लिङ्गमध्याग्रकं स्पृशेत् ।यथा यथा च सन्धानं तदिदानीमिहोच्यते ॥११४॥ओँ हाँ हँ ओँ ओँ ओँ एँ ओँ भूँ भूँ वाह्यमूर्त्तये नमः ।ओँ हाँ वाँ आँ ओं आँ षाँ ओँ भूँ भूँ वाँ वह्निमूर्त्तये नमः ।एवञ्च यजमानादिमूर्त्तिभिरभिसन्धेयं ।पञ्चमूर्च्यांत्मकेप्येवं सन्धानं हृदयादिभिः ॥११५॥मूलेन स्वीयवीजैर्वा ज्ञेयन्तत्त्वात्रयात्मके ।शिलापिण्डी वृषेष्वेवं पूर्णाछिन्नं सुसंवरैः ॥११६॥भागाभागविशुद्ध्यर्थं होमं । कुर्य्याच्छतादिकं ।न्यूनादिदोषमोषाय शिवेनाष्टाधिकं शतं ॥११७॥हुत्वाथ यत् कृतं कर्म्म शिवश्रोत्रे निवेदयेत् ।एतत्समन्वितं कर्म त्वच्छक्तौ च मया प्रभो ॥११८॥ओं नमो भगवते रुद्राय रुद्र नमोस्तुते ।विधिपूर्णमपूर्णं वा स्वशक्त्यापूर्य्य गृह्यतां ॥११९॥ओं ह्रीं शाङ्करि पूरय स्वाहा इति पिण्डिकायां ।अथ लिङ्गे न्यसेज् ज्ञानी क्रियाख्यं पीठविग्रहे ॥१२०॥आधाररूपिणीं शक्तिं न्यसेद् ब्रह्मशिलोपरि । निबध्य सप्तरात्रं वा पञ्चरात्रं त्रिरात्रकं ॥१२१॥करात्रमथो वापि यद्वा सद्योधिवासनं ।विनाधिवासनं यागः कृतोऽपि न फलप्रदः ॥१२२॥स्वमन्त्रैः प्रत्याहं देयमाहुतीनां शतं शतं ।शिवकुम्भादिपूजाञ्च दिग्बलिञ्च निवेदयेत् ॥१२३॥गुर्वादिसहितो वासो रात्रौ नियमपूर्वकम् ।अदिवासः स वसतेवधेर्भावः समीरितः ॥१२४॥इत्यादिमहापुराणे आग्नेये अधिवासनविधिर्नाम षण्णवतितमोऽध्यायः॥ N/A References : N/A Last Updated : September 16, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP