संस्कृत सूची|संस्कृत साहित्य|पुराण|अग्निपुराण|
अभिषेकविधानम्

अध्याय २८ - अभिषेकविधानम्

अग्निपुराणात त्रिदेव – ब्रह्मा, विष्‍णु, महेश आणि सूर्य ह्या देवतांसंबंधी पूजा-उपासनाचे वर्णन केलेले आहे.


नारद उवाच
अभिषेकं प्रवक्ष्यामि यथाचार्य्यस्तु पुत्रकः ।
सिद्धिबाक् साधको येन रोगी रोगाद्विमुच्यते ॥१॥

राज्यं राजा सुतं स्त्रीञ्च प्राप्नुयान्मलनाशनम् ।
मूर्त्तिकुम्भान् सुरत्नाढ्यः मध्यपूर्वादितो न्यसेत् ॥२॥

सहस्त्रावर्त्तितान् कुर्य्यादथवा शतवर्त्तितान् ।
मण्डपे मण्डले विष्णुं प्राच्यैशान्याञ्च पीठके ॥३॥

निवेश्य शकलीकृत्य पुत्रकं शाधकादिकम् ।
अभिषेकं समभ्यर्च्च्य कुर्य्याद्‌गीतादिपूर्वकम् ॥४॥

दद्याच्च योगपीठादींस्त्वनुग्राह्यास्त्वया नराः ।
गुरुस्च समायान् ब्रूयाद्‌गुप्तः शिष्योथ सर्वभाक् ॥५॥

इत्यादिमहापुराणे आग्नेये आचार्य्याभिषेको नाम अष्टाविंशोऽध्यायः ।

N/A

References : N/A
Last Updated : September 15, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP